________________
हेतुबिन्दुटीका। पेक्षया । अत एवान्यत्रोक्तम् - [S. 16b.] " यत् कचिद दृष्टं तस्य यत्र प्रतिबन्धः तद्विदः तस्य तद् गमकं तत्रेति वस्तुगतिः” इति ।
यदपि “ अनुमेयेऽथ तलल्ये सद्भाव:- ” इत्यादि लक्षणं तत्रापि साध्ये धर्मवानेव सपक्ष उच्यते । ततः सत्येव साध्यधर्मे वाs5 स्तीत्येवंपरमेतत् । ततश्च तद्धर्मणः साध्यम्मिणोऽपि वास्तवं
सपक्षत्वं न व्यावर्त्तते। साध्यत्वेनेष्टतयेच्छाव्यवस्थितलक्षणेन पक्षत्वेन तस्य निराक मशक्यत्वात् । तस्मात् तदंशव्याप्तिवचनेन खसाध्याविनाभावित्वस्य प्रतिबन्धनिबन्धनस्यान्यथा
तंदयोगादभिधानान्नावश्य[T. 216a.]मन्यत्र वृत्तिराक्षिप्तेति, कथ10 मिदमाशङ्कितम् ?। सत्यम्, नैवेदमाशङ्कनीयम्, यदि सर्वस्य हेतोः पक्षीकृते एव धम्मिणि वसाध्यप्रतिबन्धः प्रमाणतो निश्चेतुं शक्येत । [S. 17a.] यथा सत्त्वलक्षणस्य स्वभावहेतोः क्षणिकतायां साध्यायां तादात्म्यं विपर्यये बाधकप्रमाणवृत्त्या। कार्यहेतोस्तु पक्षिीकृतधर्मिणा । कस्यचित् खभावहेतोः] प्रत्यक्षानु15 पलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्मे गृह्येत ? ।
तस्मात् तस्यान्यत्रैव [प्रसिद्धिरिति तद्विशेषणापेक्षस्य तत्र अ. पेक्षणात् अन्यत्राननुवृत्तेः असाधारणता सम्भवमात्रेणाशङ्किता। तदा ह्यन्यत्रावर्तमानः साध्यविपरीत[व्यतिरेक]"
..तदुभयबहिर्भावायोगात् तेहर्मिणः 20 साध्यवृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् तत्र संशयहेतुर्भिवति । स्यान्मतम् - कचिदाश्रये सत्तायाः प्रोक्प्रवृत्तपूर्वगृहीतविस्मृतप्रतिबन्धसाधकप्रमाणस्मृतयेऽन्यत्र वृत्तिरपेक्षणीया । [S. 17b.] एतत् परिहरति । " न " इत्यादि । [नान्यत्राननुवृत्तिः। कुतः ?
१. विनिश्चये । २. लिङ्गम् । ३. प्रदेशे। ४. निश्चितम् । ५ लिङ्गस्य । ६. वह्नयादौ । ७. प्रतिपन्धविदः । ८. वह्नः । ९. लिङ्गम् । १०. यत्र दृष्टं तत्रैव नान्यत्र । ११. “ अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तिताऽ सति । निश्चिताऽनुपलम्भात्मकार्याख्या हेतवस्त्रयः॥ " १२. स साध्यो धर्मो यस्य साध्यधर्मिणः । १३. स्वसाध्याविनाभाव । १४. कार्यहेतोः स्वभावहेतोश्च तस्य......। १५. स चासौ धर्मी चेति समासः । “ तद्धर्मणः” इति पाठान्तरम् , तत्र च सोऽसाधारणो धर्मो यस्य तस्येति व्याख्येयम् । स चासौ धर्मी च । तस्य । साध्यमिण इत्यर्थः । १६. प्राक् प्रवृत्तं च तत् गृहीतं तद् विस्मृतं च तत् प्रतिबन्धसा
धकप्रमाणं च तस्य स्मृतये इति समासः ।।
*विपक्षे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org