SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पक्षधर्म इत्यत्र नियमव्यवस्था । ततोऽन्यत्राननुवृत्तेः " असाधारणता "-साधारणता न स्यात् । तदं शव्याप्तिविरोध [इति यावत् । साधारणतायास्त्व(याश्च) तदंशव्याप्त्या प्रतिपादनात् । ततो यदि पक्षधर्मो न त[दंशे]न व्याप्तिः, [S. 15b.] अथ तदंशव्याप्तिन्न पक्षधर्म इति व्याहतं लक्षणमिति । - ननु च तदंशव्याप्तिर्नाम साध्यधर्मस्य व्यापकस्य तत्र हेतौ सति तदाधारधम्मिणि भाव एव , व्याप्यस्य वा हेतोस्तत्रैव व्यापके साध्यधर्मे सत्येव भाव इति खसाध्याविनाभावलक्षणा वक्ष्यते । न चानयाऽवश्यं पक्षीकृतादन्यत्र वृत्तिराक्षिप्यते, यतो लक्षणव्याघात आशङ्कयेत । तथा हि - तत्रैव 10 पक्षीकृते सत्येव साध्यधर्मे हेतुर्वर्तमानस्तदंशव्याप्ति प्रतिपद्यत एव । यैव चास्य साध्यम्मिणि खसाध्याविनाभाविता सैव गमकत्वे निबन्धनं नान्यधम्मिणि । स च खसाध्याविनाभावः प्रतिबन्धसाधकप्रमाणनियन्धनः, न सपक्षे कचिद् बहुलं वा सहभावमात्रदर्शननिबन्धनः । न हि लोहलेख्यं वज्रम् पार्थि- 15 वस्वात् काष्ठादिवत् इति तदन्यत्र पार्थिवत्वस्य [T. 215b.] लोहलेख्यताऽविनाभावोऽपि तथाभावो भवति [S. 16a.] । यदि च पक्षीकृतादन्यत्रैव व्याप्तिरादर्शयितव्येति नियमस्तदा सत्वं(त्त्वं) कथं क्षणिकतां भावेषु प्रतिपादयेत् । यो हि सकलपदार्थव्यापिनीमक्ष(नीं क्ष)णिकतामिच्छति तं प्रति कस्य- 20 चित् [स]पक्षस्यैवाभावात् । यदपि कैश्चित् ज्वालादेः क्षणिकत्व मभ्युपगम्यते तदपि न प्रत्यक्षतः, क्षणविवेकस्यातिसूक्ष्मतयाऽ- नुपलक्षणात् । अन्यत्रैव च व्याप्सिरादर्शनीया न साध्यमिण्यपीति कोऽयं न्यायः ? । एवं हि काल्पनिकत्वं हेतुलक्षणस्य प्रतिपन्नं स्यात्, न वस्तुबलप्रवृत्तत्वम् , तस्मात् खसाध्यप्रति-25 बन्धाद हेतुस्तेन व्याप्तः सिध्यति । स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधम्मिण्यपि सिध्यतीति न किश्चिदन्यत्रानुवृत्त्य१. वृत्तेः । २. अन्वयव्यतिरेकात्मकस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy