________________
पक्षचिन्ता। मं हेतूप]दर्शनात् । न प्रत्यासत्तेः साध्यम्मिपरिग्रहः । कुतः ? । " दृष्टान्तधर्मिणोऽपि " न केवलं साध्यमिणः प्रत्यासत्तेः । कदाचिद् व्याप्तिदर्शनपूर्वके प्रयोगे दृष्टान्तधर्मिमण्यपि प्रथमं हेतुसद्भावोपदर्शनात् । ___ यदि न प्रत्यासत्तेः साध्यम्मिसिडिः पारिशेष्यात् तर्हि 5 भविष्यति । यतः “ तदंशव्याप्त्या " हेतुभूतया " दृष्टान्तम्मिणि " धर्मस्य सत्व (त्त्व)सिद्धेः । नहि [T. 214a.] दृष्टान्तमन्तरेण हेतोः साध्येन व्याप्तिः प्रदर्शयितुं शक्यत इति मन्यते । ततो धमिग्रहणाव्यतिरिच्यमानात् साध्यमिण एव परिग्रहः । “ तदंशेन" इति च तच्छब्देन धर्मवचनाक्षिप्तो धर्मी सम्भन्त्स्यत इति 10 तत्सम्बन्धनार्थमपि धम्मिग्रहणं नाऽऽशङ्कनीयम् । यत्र प्रयोजना. न्तरं न सम्भवति स पारिशेष्यविषयः, धमिवचनस्य त्वन्यपि प्रयोजनं सम्भाव्यते । तत् कुतः पारिशेष्यात् “ धमिवचनात् साध्यधर्मिपरिग्रहः " ? इति मन्यमानः सिद्धान्तवाद्याह - " सिद्धे तदंशव्याप्त्या दृष्टान्तम्मिणि सत्व(त्वे) पुनर्द्धर्मिणो [S. 1ia.] वचनं दृष्टान्तधर्मिण एव 15 यो धर्मः स हेतुरिति नियमार्थमाशङ्कयेत । ततश्च चाक्षुषत्वादय एव हेतवः स्युः , न कृतकत्वादय इति अनिष्टमेव स्यात् तस्मादुपचारः कर्तव्यः " इति ।
किं पुनस्तर्कशास्त्रे दृष्टं कचित् नियमार्थवचनमित्यत आह - " दृष्टं सजातीय एव ” इत्यादि । “ तत्र यः सन् सजातीये - " [न्यायमुख ] इत्यत्राऽऽचार्यांये हेतुलक्षणे 'सजातीय ए[व] सत्व(त्त्व)मित्यव- 20 धारणेन सिद्धेऽपि हेतोर्व्यतिरेके । कुत्र ? । साध्याभावे । यदेतत् "असंस्तदत्यये” [न्यायमुख ७] इति असत्व(त्त्व)वचनं तन्नियमार्थमाचार्येण व्याख्यात[म् असत्येव नास्तिता यथा स्यात् नान्यत्र न विरुद्ध इति । तथेहापि धमिवचनं तत्रैव भावनियमार्थमाशङ्कथेत। कदा ? सिद्धेऽपि दृष्टान्तधम्मिणि [स]त्वे(त्त्वे)। कुतः ? तदंश- 25
१. द्विविधो हि प्रयोगः - व्याप्तिपुरस्सरपक्षधर्मतोपसंहारवान् , पक्षधम्मतोपसंहारपूर्वकव्याप्तिवांश्च । यत् कृतकं तदनित्यम् । यथा घटः। कृतकश्च शब्द इ......... २. यः सन् सजातीये सपक्षे सन् विद्यमानस्तदत्यये साध्यस्याभावे विपक्षे च द्वेधाऽसन् सदसन् यदि न भवति । किन्त्वसन्नेव विपक्षे यदि भवति तदैव सम्यग्धेतुरिति भावः । ३. “ यः सन् सजातीयेऽसन् तदत्यये " इति दिग्नागाचार्यायं सूत्रं व्याख्यातमत्र । ४. अभावरूप अन्यरूपे विरुद्धरूपे वा नास्तिता यस्य स हेतुरित्यर्थः । ५. धर्मिधर्मवच' - T.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org