________________
पक्षचिन्ता । नियमः २ तस्य च त्रिविधस्य हेतुत्वावधारणं ३ तदुभयकारणं ४ श्लिष्टनिर्देशा[ख्यानं ५] हेत्वाभासलक्षणानभिधानकारणं ६ चेति षडर्थाः श्लोकेऽत्र निर्दिष्टा इति ।
किञ्च - इदमपि साधु दृश्यते - “ त्रिधैव " कार्यस्वभावानुपलब्धि[भेद]भिन्नः स हेतुः । तथा, विधैव पक्षधर्मान्वयव्य- 5 तिरेकरूपभेदात् “ त्रिप्रकार एव” त्रिरूप एव। [S. 12a.] तदंशव्याप्तिवचनेनान्वयव्यतिरेकयोरभिधानात्। नाबाधितविषयत्वादिरूपान्तरयोग्यपि स हेतुः । कुतः ? यतः " हेत्वाभासास्ततोऽपरे " " ततः " त्रिविधात् स्वभावा]देः, पक्षधर्मादिरूपत्रययोगिनो वा “ अपरे" अन्ये संयोग्यादयोऽबाधितविषयत्वादिव्यतिरिक्तरूपवन्तो वा । 10 कस्माद् ? । अविनाभावस्य अत्रैव विविध एव त्रिरूप एवं च हेतौ नियमादन्यत्र स्वभावादिव्यतिरिक्त(क्ते) रूपान्तरसम्भविनि वा अविनाभावाभावादित्यर्थः । न हि स्वभावादिव्य[ति]रिक्त प्रतिबन्धनिबन्धनस्याऽविनाभावस्य संभवः तदति वा रूपान्तरस्य । यथा चा(च) सत्येवाविनाभावे रूपा [T. 213a.]न्त- 15 रस्य न सम्भवस्तथा " षड्लक्षण " इत्यादिना वक्ष्यति ।
[५. दिङ्नागानुसारेण पक्षशब्दस्य धर्मिमात्रपरत्वम् । ] " पक्षधर्मः " इत्यत्र हेतुलक्षणेऽपि क्रियमाणे यदि समुदायः पक्षे(क्षो) गृह्यते योऽनुमानविषयस्तदा सवों हेतुरसिद्धः, सिद्धौ वाऽनुमानवैयर्थ्यमित्याह " पक्षो धर्मी ” इति । कथं पुनः समुदाय- 20 वचनः [S. 12b.] पक्षशब्दो धम्मिमात्रे वर्तत इति चेत् ? "अवयवे समुदायोपचारात्" । पक्षाख्यस्य हि समुदायस्य द्वाववयवौ धर्मी धर्मश्च । तत्र धम्मिमात्रे समुदायोपचारात् पक्षशब्दो वर्तते । तदेकदेशत्वं च समुदायोपचारनिमित्तमिति न साध्यमिणोऽन्यत्र तत्प्रसङ्गः । तदुक्तम् -
25 "समुदायस्य साध्यत्वात् धर्ममात्रे [च] धम्मिणि ।
अमुख्येऽप्येकदेशत्वात् साध्यत्वमुपचर्यते ॥” इति। १. तस्योमयस्य हेतुसंख्या नियमस्य हेतुत्वावधारणस्य कारणं अविनाभावनियम इत्येत......।। २. यस्य हि य एकदेशस्तत्र तादूप्योपचारः , न हि पटस्यैकदेशे दग्वे कम्बलो दग्ध इत्युपचारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org