________________
हेतुबिन्दुटीका ।
दंशेन व्यास एवेति सम्बन्धः । किं कारणम् ? । " अविनाभावनियमात् ” । " । अविनाभावस्य - व्याप्तेः । त्रिविध एव पक्षधर्मे नि. यमात् । त्रिविधस्य च पक्षधर्म्मस्याविनाभावनियमात् । तेन च [स्व]भावकार्यानुपलम्भात्मकत्रिविधपक्षधर्म्मव्यतिरिक्ता [T. 212a.] 5 न तदंशेन व्याप्ता इति । त्रिविधश्च कार्यस्वभावानुपलब्धिरूपः पक्षधर्मस्तदंशेन व्याप्त एवेति न तस्याहेतुत्वमित्युक्तं भवति । ततस्त्रिविधहेतुबाह्येष्ववि[नाभा ] वाडेतुव्यवहारं कुर्व्वन्तः, त्रिविधे च हेतावविनाभावस्यावश्यम्भावा[भावा] दहेतुत्वमाचक्षाणा निरस्ता भवन्ति । [S. 11a . ]
१०
[ $ ४. हेत्वाभासलक्षणानभिधानेपि तत्सूचनम् । ]
1
-
तत्रैतत् स्यात् - हेत्वाभासानामपि [लक्षणम]भिधानीयं तत्र शिष्याणां हेतुव्यवहारनिवृत्तय इत्याह " हेत्वाभासास्ततोऽपरे " इति । “ ततः " पक्षधर्म्मस्तदंशेन व्यास इति हेतुलक्षणाद् “ अपरे " अ[न्ये त]ल्लक्षणविकला हेत्वाभासा गम्यन्त एवेति न तल्लक्षण15 मुच्यते । तथा हि - " पक्षधर्म्मः " इत्युक्ते यत्र पक्षधर्म्मता नास्ति न स हेतुः । " तदंशेन व्याप्तः " इति वचने यत्र तदंशव्याप्तिविरहो विपर्ययव्याप्तेर्व्यापकस्य वा तत्रावश्यम्भावाभावात्, तुरूपविकलतया " हेत्वाभासाः " असिद्धविरुद्धानैकान्तिका ग म्यन्त एव । तथा हि - येल्लक्षणो योऽर्थः शिष्यस्य व्युत्पादितः 20 तल्लक्षणविरहिते न तद्वयवहारं स्वयमेव प्रवर्तयिष्यति अ[तद्रूप] परिहारेणैव तद्रूपप्रतिपत्तोरिति न तत्र यत्नः फलवान् भवति । [S. 11b.] यत्त्वन्यत्र हेत्वाभासव्युत्पादनं तन्मन्दबुद्धीनधिकृत्य । इदं तु प्रकरणं विपुलमतीनुद्दिश्य प्रणीतम् " संक्षेपतः " इति वचनात् । [T. 212b.] त एव हि संक्षेपोक्तं यथावदवगन्तुं क्षमाः न 25 मन्दमतयः, तेषां विस्तराभिधानमन्तरेण यथावदर्थप्रतिपत्तेरभावात् । अत एवार्थाक्षिप्तोपन्यासपूर्वकमेव हेत्वाभासलक्षणं तत्रोपवर्णितमिति । तदत्र व्याख्यानें हेतुलक्षणं १ हेतुसंख्या
१. चार्वाकाः । २. यद्रूप° । -
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org