________________
हेतोत्रित्वेन व्याप्तिः। ज(नन्वसत्यपि ज)न्यजनकभावे, तादात्म्ये वा, तेनैवाविनाभावो नान्येनेत्यत्र वस्तुस्वभावैरेवोत्तरं वाच्यम् ये एवं भवन्ति नास्माभिः, केवलं वयं द्रष्टार] इति चेत् ; आकस्मिकस्तर्हि स वस्तूनां स्वभाव इति न कस्यचिन्न स्यात् । न ह्यहेतोर्देशकालद्रव्यनियमो युक्तः। [तद्धि किश्चित् कचिदुप]नीयेत न वा यस्य 5 यत्र किश्चिदीयत्तमनायत्तं वा । अन्यथा विशेषाभावादिष्टदेशकालद्रव्यवदन्यदेशादिभावः केन वार्यत विशेषाभावात् । ततो यद्येनाविनाभूतं दृश्यते तस्य तेनाव्यभिचारकारणं तत्त्वचिन्तकैरभिधानीयम् , [T. 211b.] न तु पादप्रसारिकाऽवलम्बनीया। तचाव्यभिचारकारणम् [S. 10a.] यथोक्तादन्यन्न युज्यते इति 10 तद्रिकला न हेतुलक्षणभाज इति । तथा चाह -
" संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः । न ते हेतव [इत्युक्तं] व्यभिचारस्य संभवात् ॥"
- [प्रमाणवा० ४. २०३] इति । - अत्र प्रयोगः - यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो 15 न स तदविनाभावी, यथा प्रमेयत्वादिरनित्यत्वादिना, न स्तश्च केनचित् तादात्म्यतदुत्पत्ती खभावकार्यव्यतिरेकिणामर्थानामिति । व्यापकानुपलब्धिः । स्वभावानुपलब्धिस्तु स्वभावहेतावन्त - वितति तस्याः [तादात्म्य लक्षण एव प्रतिबन्धः । व्यापककारणानुपलब्धी तु तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवशादेव व्याप्य- 20 कार्ययोनिवृत्तिं साधयतः।
[तदुक्तम् - . " तस्मात् तन्मात्रसंबद्धः स्वभावो भावमेव वा।
निवर्तयेत्कारणं वा कार्यमव्यभिचारतः॥" [प्रमाणवा० ३.२२] इति। तदेवं हेतुलक्षणं १ संख्यानियमः २ तदुपदर्श[कं च प्रमा- 25 णम् ३ अत्र [S. 10b.] श्लोके निर्दिष्टमिति ।
[$ ३. अविनाभावनियमादित्यस्य प्रकारान्तरेण व्याख्यानम् । ]
अथवा त्रिधैव सः । इति स पक्षधमस्त्रिप्रकार एव स्वभावकार्यानुपलम्भाख्यस्तदंशेन व्याप्तो नान्यः । [स] त्रिप्रकारस्त१. प्रतिबद्धम् । २. अनित्यादिकः । ३. व्याप्यं कृतकत्वादिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org