________________
हेतुबिन्दुटीका। त्यर्थः]। तथा च वक्ष्यति - " न स त्रिविधाद्धेतोरन्यत्रास्तीत्यत्रैव नियत उच्यते " इति । अविनाभाववैकल्यं च हेत्वाभासत्वेनासिद्धविरुडानैकान्तिकसामान्य[धर्मे]ण व्याप्तं प्रमेयत्वादौ निश्चितमिति हेत्वाभासत्वे साध्येऽविनाभाववैकल्यं स्वभावहेतुः । 5 अविनाभाववैकल्यं च त्रिविधहेतुव्यतिरिक्तत्वादेव [तदन्येषां] [S. 9a.] [व्याप]कानुपलब्धितः सिद्धम् । तथा हि - तादात्म्पतदुत्पत्तिभ्यामविनाभावो व्याप्तः, तयोस्तैत्रावश्यंभावात् । तस्य च तयोरेव भावादतत्खभावस्यातदुत्पत्तेश्च [तदनायत्ततया तव्यभिचारनियमाभावात् । तदुक्तम् - 10 " कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।
अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ [अवश्यंभाव]नियमः कः परस्यान्यथा परैः । अन(अर्था)न्तरनिमित्ते वा धमें वाससि [T. 211a.] रागवत् ॥"
[प्रमाणवार्तिक ३. ३०, ३१ ] इति । 15 रूपादिनाऽपि हि रसादेरविनाभावो न स्व[त: किन्तु स्व
कार]णाव्यभिचारद्वारक इति तत्कारणोत्पत्तिरेवाविनाभावनिबन्धनम् । अन्यथा तंदनायत्तस्य तत्कारणानायत्तस्य वा तेना[विनाभावकल्प]नायां सर्वस्य साथै रविनाभावः स्यात्, अविशेषात् । एकार्थसमवायनिमित्तो रूपरसादेरविनाभाव इति 20 चेत् । ननु समवायोऽप्याधार्या[धारभूतानामुपवर्ण्यते । स चाधाराधेयभावस्तदात्मानुपकारेऽतिप्रसङ्गतो न सिध्यतीत्येकसामग्यधीनतैवैकार्थसमवायोऽवसेयः। [S. 9b.] अन्यो वा वस्तुभूतः संबन्धोऽसम्भवी तथा सम्बन्धपरीक्षायां विस्तरत: शास्त्रकृता प्रतिपादितमेवेति तत एवावधार्यम् । अस --न वा
१. अविनाभावे । २. तादात्म्यात् । ३. साध्येन । ४. साधनस्य । ५. विपक्षे। ६. सपक्षे । ७. साधनस्य । ८. तादाम्यतदुत्पत्त्यभावे। ९. साध्ये। १०. मुद्गरादि । १२. नित्यत्वादिके। १२. एकसामग्रीप्रतिबन्धाभावे । १३, साध्यानायत्तस्य । १४. साध्यकारणानायत्तस्य। १५, आधेयस्य रूपरसादेरनुपकारे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org