SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ सप्तमं परिशिष्टम् । - आचार्यधर्मकीर्तिकृतं हेतुबिन्दुप्रकरणम् । [T. 355b] नमो बुद्धाय । [१. हेतोः सामान्यनिरूपणम् ।] परोक्षार्थप्रतिपत्तेरनुमानाश्रयत्वादेव तद्वयत्पादनार्थ संक्षेपत इदमारभ्यते'-- 5 पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रियैव सः । अविनाभावनियमाद् हेत्वाभासास्ततोऽपरे ॥ पक्षों धर्मी, अवयवे समुदायोपचारात् । प्रयोजनाभावादनुपचार इति चेत् । न । सर्वधर्मिधर्मप्रतिषेधार्थत्वादुपचारस्य । एवं हि चाक्षुषत्वादि परिहृतं भवति । . ... 'धर्मवचनेनापि पराश्रयत्वात् धर्मस्य धाश्रयसिद्धौ प्रत्यासत्तेः साध्यधर्मिण एव 10 सिद्धिरिति चेत् । न । प्रत्यासत्तेः दृष्टान्तधर्मिणोपि । सिद्धे तदंशव्याप्त्या दृष्टान्तधर्मिणि सत्त्वे पुनर्धर्मिणो वचनं दृष्टान्तधर्मिण एव यो धर्मः स हेतुरिति नियमार्थमाशंक्येत । ततश्च चाक्षुषत्वादय एव हेतवः स्युः न कृतकत्वादय इत्यनिष्टमेव स्यात् । तस्मादुपचारः कर्तव्यः । दृष्टं " सजातीय एव सत्त्वम् " इत्यवधारणेन साध्याभावे सिद्धेपि व्यतिरेके साध्याभावे असत्त्ववचनम् , तथेहापि तदंशव्याप्तिवचनात् सिद्धेपि दृष्टान्तधर्मिणि सत्त्वे 15 तत्रैव भावनियमार्थ धर्मिवचनमाशंक्येत । तस्मात् सामर्थ्याद् अर्थप्रतीतावपि उपचारमात्रात् समाननिर्देशात् प्रतिपत्तिगौरवं च परिहृतं भवति ।। .. पक्षस्य धर्मत्वे तद्विशेषणापेक्षस्यान्यत्राननुवृत्तेरसाधारणतेति चेत् । न । अयोगव्यव च्छेदेन विशेषणात् [T 356a] । यथा चैत्रो धनुर्धर इति । नान्ययोगव्यवच्छेदेन । यथा पार्थो धनुर्धर इति । 1. We thank Mahapandita Rahul Sankrityayana for allowing us to print this restoration made by him from Tibatan version. We also thank Muni Shri Jambu Vijayji for kindly supplying us with the refe. rences of Hetubindu in Utpädädisiddhi. It should be noted here that Rahulji's restoration is not printed verbatim. We have made the changes, wherever it was found necessary. All thc notes are supplied by us. So final responsibility rests on us. १.पृ. ३९.५० १८ । २. प्रमाणवा० ३.१ (मनो०)। प्रमाणवा० १.३ (कर्ण०)। ३. कर्ण पृ० १२। ४. कर्ण० पृ. १३ । ५. कर्ण० पृ० १५। Jain Education International For Private & Personal Use Only www.jainelibrary.org 20
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy