________________
पृ.१७-३५.] .. हेतुबिन्दुप्रकरणम् ।
'तदंशो हि तद्धर्म एव। तस्य व्याप्तिर्हि व्यापकस्य तत्र भाव एव । व्याप्यस्य वा तत्रैव भावः । एतेन अन्वयो व्यतिरेको वा पक्षधर्मश्च यथास्वं प्रमाणेन निश्चित उक्तः ।
सर्वत्र हेतौ साध्यवैधयें व्याप्त्यसिद्धापकनिवृत्तौ निवृत्त्यभावाद्वा । अन्वयव्यति. 5 रेकनिश्चयाभ्यां हि तद्धर्मव्याप्तिनिश्चयः ।
"तत्र पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतोऽनुमानतो वा प्रसिद्धिः । यथा प्रदेशे धूमस्य, शब्दे वा कृतकत्वस्य ।
सधूमं हि प्रदेशमन्तिराविविक्तरूपमसाधारणात्मना दृष्टवतः स्मार्तं यथादष्टभेदपरमार्थविषयं लिङ्गज्ञानमुत्पद्यते । 10 तत्र यदाद्यमसाधारणविषयं दर्शनं तदेव प्रमाणम् ।
तस्मिन् तथाभूते दृष्टे सति तदसाधारणतामभिलपन्ती . अतव्यावृत्तिविषया स्मृतिरुत्पन्ना प्रत्यक्षबलेन न. प्रमाणम् । यथादृष्टाकारग्रहणात् , प्रागसाधारण दृष्ट्वा असाधारणमभिलपतः [प्रतिषेधविकल्पस्य ] अपूर्वार्थधिगमाभावात् , अर्थक्रिया
साधनस्य आलोचनाज्ञानेन दर्शनाच्च । अदृष्टस्य पुनस्तत्साधनस्य [ विधि ]विकल्पेना15 प्रतिपत्तेरनुमानवत् । [ T. 356 b ]
अर्थक्रियार्थी हि सर्वः प्रेक्षावान् प्रमाणमप्रमाणं वा अन्वेषते । न च सामान्यं स्वलक्षणप्रतिपत्तेरूवं तत्सामर्थ्योत्पन्नविकल्पविज्ञानग्राह्यं काश्चिद् अर्थक्रियामुपकल्पयति । यथा नीलं दृष्टवा नीलमिति ज्ञाने । तदेव हि नीलस्वलक्षणं तथाविधसाध्यार्थक्रियाकारि ।
तच्च तेनात्मना दृष्टमेव ।। 20 न च तत्स्वलक्षणग्रहणोत्तरकालभाविनो नीलविकल्पस्य विषयेण नीलसाध्यार्थक्रिया क्रियते।
तस्मात् । अनधिगतार्थविषयं प्रमाणम् , इत्यपि । अनधिगते खलक्षणे , इति विशेषणीयम् ।
अधिगते तु खलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् स्मृति25 रेव, न प्रमाणम् , अनधिगतवस्तुरूपस्यानधिगतेः । वस्त्वधिष्ठानत्वात् प्रमाणव्यवस्थायाः । अर्थक्रियायोग्यविषयत्वात् तदार्थनां प्रवृत्तेः । अर्थक्रियायोग्यलक्षणं हि वस्तु इति ।
१. कर्ण० १६ । २. कर्ण० पृ० १६ । ३. नास्ति टीकाया: पत्रमिति इत आरभ्य 'तत्र' इति यावत् टीकातः समुद्धारोऽशक्यः ।
४. पृ०३९।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org