________________
[ १. हेतोः सामान्यनिरूपणम् । ]
[$ १. हेतोत्रित्वेन व्याप्तिः कथं फलितेति चर्चा ।] [S. 7a.J.........हि कथितम् । तत्र कार्यस्वभावयोविधिसाधनत्वान्न प्रतिषेधे साध्ये व्यापारः। अनुपलब्धितोऽपि न है5 त्वन्तराभावनिश्चयो यतः सा चतुर्दाऽवस्थिता स्वभाव[कारण]व्यापकानुपलब्धयो विरुद्ध[T. 209b.]विधिश्चेति'। तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिणः स्वभावानुपलब्धिरन्योपलब्धिरूपा अभावव्यवहारहेतुरिष्यते । न [च हेत्व]तरमत्यन्ताभावतयोपगतमनुक्रान्तरूपम् , यदि हि स्याद्देशादिनिषेध एवास्य स्यात् ना10 त्यन्ताभावः। कारणव्यापकानुपलब्धी तु सिद्धे कार्यकारण]व्याप्यव्यापकभावे भवतः । न च हेत्वन्तरेऽत्यन्तासत्तयाङ्गीकृते प्रकारोऽयं सम्भवति । तत् कथं ते तदभावं गमयिष्यतः । विरोधोऽप्यविकल[कारणस्य] भवतोऽन्यभावेऽभावावगम्यत इति विरुद्धोपलब्धिरप्यसम्भाविनी। सम्भवे वा कारणानुपलब्ध्या15 दीनां कथमत्यन्तनिषेधः ? इत्याशङ्कयाह - " हेत्वाभासास्ततोऽपरे "
इति । "ततः, त्रिविधाडेतोः "अपरे” अन्ये "हेत्वाभासाः, यतस्ततस्त्रिधैव स इति।। ....... एवं मन्यते - इह यद् यत्र नियम्यते [तदि]पर्ययेण [S. 7b.]
तद्विपक्षस्य व्याप्तौ स नियमः सिद्धयति । यथा यत् सत् तत् 20 क्षणिकमेवेति सत्त्वस्य क्षणिकेषु नियम उच्यमानः सत्त्वविपर्ययेणा[स]त्त्वेन क्षणिकविपक्षस्याक्षणिकस्य व्याप्ती. सिद्धयति । एवमिहापि त्रित्वे हेतुर्नियम्यमानो हेतुविपर्ययेण हेत्वाभासत्वेन त्रिसंख्यावा ह्यस्यार्थ]स्य व्याप्तौ त्रिसंख्यायामेव नियतो
भवति । ततस्त्रिविधहेतुव्यतिरिक्तानामर्थानां हेत्वाभासतां द25 शयति । तेन स्वभावविरुद्धोपलब्ध्या [कार्य-स्वभावानुपलम्भव्यतिरिक्तानामर्थानां हेतुत्वाभाव[T. 210a.]निश्चय इति । हेतुतदाभासयोश्च परस्परपरिहारस्थितलक्षणतयैव विरोधो [हेतुल]१. श्चेति । तत्र तुल्य° - T. । २. एकज्ञानसंसर्गिवस्त्विन्तरम् ] । ३. हेतुत्वम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org