________________
स्वलक्षणस्यैव वस्तुत्वम् ।
सामान्यस्यावस्तुत्वेऽपि ज्ञानमात्रलक्षणत्वात् तदर्थक्रियायाः तस्याश्च तदु[त्पाद्य]त्वेन सिद्धत्वात् । न हि जातिर्दाहपाकादावुपयुज्यते, स्वलक्षणस्यैव तत्रोपयोगात्' । तत्सम्बन्धात् तत्र प्र वृत्तिरिति चेत्; न नित्यस्यानुपकार [कत्वेन] केनचित्सम्बन्धाभावात् । सत्यपि च सम्बन्धे कथमन्यप्रतिपत्तावन्यत्र प्रवृत्तिः, 5 अतिप्रसङ्गात् । [S. 5b.] समवायस्य सूक्ष्मत्वेनानवसितविवेकस्यावसायाद् भ्रान्त्या तत्र प्रवृत्तिरिति चेत्; [T. 208b. ] एवं तर्हि भ्रान्तिमात्रमेवास्तु, किमन्तर्गडुना सामान्येन ? | निब्बीजभ्रान्त्ययोगादिति चेत् ता एव व्यक्तयस्तदेकका[र्यकारिण्यो भ्रान्तबीजम् ] । वर्णाकृतिसमानाकारं हि सामान्यज्ञानम् | 10 न च सामान्यं तद्रूपम्, तत् कथं तद् भ्रान्तेब्बीजम् । सादृश्यनिबन्धना हि भ्रांन्तिरिष्यते परैः । व्यक्तय एव चा[समानजा] - तीयव्यावृत्ताः सामान्याकारज्ञानस्वरूपास्ततस्ता एव भ्रान्तिबीजम्, अतद्रूपव्यावृत्तेस्तासु भावात् । वस्तुभूतस्य तु सामान्यस्य सम्बन्ध[[संभवे]न तासु भावायोगाच्च ।
यैस्तु व्यक्त्यात्मकमेव सामान्यं कल्पितं तैः स्वलक्षणविषयमनुमानस्य प्रामाण्यमभ्युपगतमेव भवति । स्वलक्षणात्मकं तु सामान्यं कथमनुमाने' प्रतिभासते इति चिन्त्यम् । न च व्यक्तिरूपमपास्यापरं सामान्यस्य रूपमिष्यते, वैशेषिकदर्शनोपगमप्रसङ्गात् ।
[S. 6a and S. 6b.]..............
***********
१. वर्णाकृल्मयोगाच्च । २. सांख्यैः । ३. स्वलक्षणा प्रतिभासे ।
Jain Education International
For Private & Personal Use Only
15
20
www.jainelibrary.org