SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ at हेतुबिन्दुटीका। रासार्थम् आश्रयः - कारणम् , अनुमानमाश्रयो यस्येति सामान्येन विगृह्य । [तदनु च] कस्यानुमानाश्रयत्वादिति विशेषापेक्षायाम् – यद्यपि परोक्षार्थप्रतिपत्तिशब्दसम्बन्धे स्त्रीत्वं गम्यते तथापि तत् पदसंस्कारवेलायां बुद्धयसंनिहितत्वात् बहिरङ्गमिति 5 न स्त्रीप्रत्ययनिमित्तं यथा भूतमियं ब्राह्मणी, आवपनमियमुष्ट्रिकति। [सर्वपरोक्षप्रतीतेर्लिङ्गजत्वादेवानुमानत्वसूचनम् । ] अनेन च सर्वा परोक्षार्थ]प्रतिपत्तिः प्रमाणभूता, अन्यस्मात् तत्प्रतिपत्त्ययोगात्, त्रिरूपलिङ्गाश्रयैवेत्युक्तं भवति [S. 4b.] 10 अनुमानाश्रयत्वादेवेति अवधारणात् । ततश्च शब्दादीनां सति प्रामाण्येऽनुमानता, अन्यथा तेषामपि व्युत्पाद्यताप्रसङ्गो निमित्तस्य समानत्वात् । ___ तथा हि - सर्वा परोक्षार्थप्रतिपत्तिः प्रमाणभूता], न ख तन्त्रा भवति । तस्याः खार्थप्रतिबन्धाभावेन नियमन तत्संवा15 दायोगात् । अविसंवादलक्षणत्वाच प्रमाणस्य । अन्यतोऽपि [यदि स्यात् [T. 208a.] सर्वतः सर्वप्रतिपत्तिप्रसङ्गात् धर्म्यसम्बन्धेऽपि सर्वत्र प्रतीतिं जनयेत् , प्रत्यासत्तिविप्रकर्षाभावात् । एवम्भूतैश्च त्रिरूप[लिङ्गमेवार्थों भवतीति सर्वा परो क्षार्थप्रतिपत्तिस्त्रिरूपलिङ्गजत्वेनानुमानात् न भिद्यत इति । एष 20 चार्थः " पक्षधर्मस्तदंशेन व्याप्तो हेतुः " , कस्य ?, परोक्षार्थप्रतिपत्ते। रिति [S. 5a.] प्रकृतेन संबन्धाद् दर्शितः, पक्षधर्म एव तदंशेन व्यास एव च परोक्षार्थप्रतिपत्तेर्हेतुरित्यवधारणात् । [स्वलक्षणस्यैव वस्तुत्वं न सामान्यस्येति स्थापनम् । ] अर्थग्रहणं तु परोक्षार्थप्रतिपत्तेरित्य[नुमा]नस्यापि स्वलक्ष25 णविषयं प्रामाण्यं दर्शयितुम् । अर्थक्रियासमर्थो ह्यर्थः, स्वल क्षणं चैवमात्मकम् । अत एव - " वस्त्वधिष्ठानत्वात् प्रमाणव्यवस्थायाः " - [इति वक्ष्यति । अन्यथाऽनुमानात् तत्र प्रवृत्तिन्न स्यादर्थक्रियार्थिनः। ३. परोक्षार्थप्रतिपत्तिकारणत्वस्य । ४. स्वतन्त्रातिपत्तेः १. स्त्रीत्वम् । २. अवधारणाभावे। ५. स्वार्थ° । ६. प्रतिबद्धं पक्षसंबद्धं व। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy