________________
प्रकरण तदभिधेययोः प्रयोजनचिन्ता ।
दशदाडिमादिवाक्यं काकदन्त [ परीक्षा च । निष्प्रयोजनं चेदं ] प्रकरणं तदर्थो वा' इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थमादी प्रयोजनवाक्योपन्यासः ।
[ प्रकरणतदभिधेययोः प्रयोजनचिन्ता । ]
तत्र " तद्वयुत्पादनार्थम् " इति वाक्येन स्वयमस्य प्रकरणस्य 5 प्रयोजनमाह । यथास्वमभिधेयप्रतीतिर्हि वाक्यस्य प्रयोजनम् । तच्चेहास्ति पदानामवान्तरवाक्यानां च परस्परसंसर्गात् समासार्थप्रतीतेः । तथा हि - अनुमानमत्र प्रकरणे व्युत्पाद्यत इति तद् अभिधेयम् । तस्यैव तच्छब्देन सम्बन्धात् । यद्यपि परोक्षार्थप्रतिपत्तौ गु[णभूतमनु] मानं तथापि वक्तुरभिप्रायानुविधायितया 10 शब्दवृत्तेः तच्छब्देन परामृश्यते । अन्यथा प्रधान संस्पर्शो ( शों) पि कथं स्यात् ? । शब्दानां स्व[भावतः ] सम्बडा (न्धा) योगात् । “ पक्षधर्म्म ” इत्यादिना चानुमानस्यैव व्युत्पादनात् । तस्य [S. 3b.] व्युत्पत्ति [रविपरीतस्वरू] पप्रतीतिरस्य प्रकरणस्य प्रयोजनम्, तत्साध्यत्वात् । अत एव चानुमानव्युत्पत्तिविषयं प्रकरण [ व्या - 15 पारं प्रतिपाद]यितुं णिचा निर्दिशति - " तद्वयुत्पादनार्थम् " इति । ततश्च प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः सम्बन्धोऽप्युक्तो भवति । यद्यपि द्रवृत्तेना [नुमानव्युत्पत्तिविषयस्य प्रकरणव्यापारस्य प्राधान्यं तथापि वस्तुवृत्तेन व्युत्पत्तेरेव प्रधानता तस्यास्तत्साध्यत्वात् । इतरस्य च तदुपायत्वेनाप्रधानत्वात् । तस्मा - 20 दनुमानव्युत्पत्ति [T. 207b. ]रेव प्रयोजनतया प्रतीयते न प्रकरणव्यापार इति ।
“ परोक्षार्थप्रति[पत्तेः अनुमानाश्रयत्वात् " इत्यनेन तु प्रकरणार्थस्यानुमानलक्षणस्य प्रयोजनमाह । न हि वाक्यस्य स्वार्थप्रतीतिलक्षणं फैलमस्तीत्येता [वतैव प्रेक्षावान् प्रव]र्त्ततेऽपि तु तदभिधेया- 25 र्थस्य पुरुषार्थोपयोगित्वे सति । तचेहास्ति यत: परोक्षार्थस्य या प्रतिपत्तिः - निश्चयः - तस्या अनुमा[नं - त्रिरूपलिङ्गम् ] [S. 42.] कारणे कार्योपचारात् । अनन्योपायसाध्यतां दर्शयितुं परमतनि
१. तद्वत्पत्ति । २. शाब्दन्यायेन । ३, प्रकरणव्यापार । ४ प्रकरण । ५, प्रयोजनम् -T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org