________________
हेतुबिन्दुटीका । सम्भवात् प्रेक्षावतां तंदर्थितया प्रकरणश्रवणादी प्रवृत्तिः] [S. 2a ] स्यादिति तेदभिधानस्यार्थवत्ता वर्ण्यते । न चैतद् युक्तम् । यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये तेद्भावनिश्चयात् । यथा कृषीवलादीनां सस्या]द्युपाये बीजादावऽवीजादिविवेकेनाऽवधृ5 तबीजादिभावानाम् । अन्यथा ह्यनिश्चितोपायानामुपेयार्थिनां [T. 206b.] प्रवृत्ती प्रेक्षावत्तैव हीयेत । उपेये तु [प्रमा]णव्यापारासम्भवादनिश्चयेऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोरसम्भवे ' योग्यमेतद्विवक्षितं कार्य निष्पादयितुम् ' इति सं[भा
वनया प्रवृत्तौ] प्रेक्षावत्तातो न हीयेरन् । 10 निश्चयश्च प्रमाणादेव । न च प्रयोजनवाक्यस्य प्रामाण्य
मस्ति, शब्दानां बहिरर्थे प्रतिबन्धाभावात् । विवक्षायां [तस्य प्रामाण्येऽपि यथा]वस्तुप्रवृत्तिनियमाभावात् न ततः प्रकरणस्य प्रयोजनविसे(शे)षं प्रति उपायतानिश्चयः समस्ति । न हि ये यथा [S. 2b.] यमर्थ विवक्षन्ति ते तथैव तमनुतिष्ठन्ति वि]15 संवादनाभिप्रायाणामन्यथाऽभिधायान्यथाप्रवृत्तिदर्शनाल्लोके स. वत्रानाश्वासात् ।
प्रयोजनविशेषोपन्यासात् प्रकरणस्य तदुपायता[विषये संशयः ज]न्यते ततस्तद्भावनिर्धारणाय कृषीवलादेरिव बीजाद्यवधृतये प्रवृत्तिर्युक्तेति चेत् ; न, प्रयोजनविशेषोपायतासंशयस्य 20 तदभिधानात् प्रागपि] भावात् । तत्साधकबाधकप्रमाणाभावे
तस्य न्यायप्राप्तत्वात् । अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात् किमस्यानुमा[नव्युत्पादनं प्रयोजनमन्यदा, न वा किश्चिदपीत्यवंरूपश्च संशयः प्राक् प्रवर्त्तमानः केन निवार्येत । अपि
च किमिदं निष्प्रयोजनम् , उत प्रयोजन[वत्, अथाऽस्मदभिम]25 तेन वा प्रयोजनेन तद्वदिति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः । [S. 3a.]
तस्माद् यत् प्रयोजनरहितं वाक्यम्, तदर्थो वा , न तत् प्रेक्षावताऽऽरभ्यते कर्ने प्रतिपादयितुं वा। तद्यथा [T. 207a.]
१. प्रयोजनार्थितया। २. प्रयोजनाभिधानस्य । ३. आदिवाक्यस्य निश्चायकत्वसंवर्णनम् । ४, प्रयोजन° । ५. उपाय° । ६. संशयात् । ७. प्रयोजनविशेषोपायत्वस्य । ८. संशयस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org