SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीमदर्चटविरचिता ॥ हेतुबिन्दुटीका ॥ ॥ नमः सर्वज्ञाय ॥ [ जिननमस्कारेण मङ्गलम् । यः सञ्जातमहाकृपो व्यसनिनं त्रातुं समग्रं जनम् , पुण्यज्ञानमयं प्रचित्य विपुलं हेतुं विधूतश्रमः । कृत्लज्ञेयविसर्पि[निर्मलतरप्रज्ञोद]याद्रिं श्रितो लोके हाईतमोपहो जिनरविद् नमस्यामि तम् ॥ १॥ 1 [धर्मकीर्तिवचसां सरसतमत्वख्यापनम् । ] वरं हि धार्मकीर्तेषु चवितेष्वपि चर्वणम् । . 10 निष्पीडिताऽपि मृद्री[का ननु स्वादं जहा]ति किम् ? ॥ २॥ [स्वलाघवं प्रख्याप्य ग्रन्थविवरणप्रतिज्ञा । ] न्यायमार्गतुलारूढं जगदेकत्र यन्मतिः । जयेत् तस्य क गम्भीरा गिरोऽहं जडधीः क च ? ॥ ३ ॥ तथापि मन्दमतयः सन्ति मत्तोऽपि केचन । 15 तेषां कृते] मयाप्येष हेतुबिन्दुविभज्यते ॥ ४ ॥ [आदिवाक्यस्य प्रयोजनप्रकटनम् । ] - " परोक्षे "-[Tt. 355b.] त्यादिना प्रकरणारम्भे प्रयोजनमाह । तंच श्रोतृजनप्रवृत्त्यर्थम् इति केचित । तदुक्त[म् - 20 " सर्वस्यैव हि शा]स्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यताम् ॥" _ [ श्लोक० सू० १. श्लो० १२ ] । इति । तेंदयुक्तम् । यतोऽस्य प्रकरणस्येदं प्रयोजनमिति [ प्रदर्शने प्रयो]जनविशेष प्रति उपायतां प्रकरणस्य निश्चित्यानुपाये प्रवृत्त्य- 25 १, प्रस्तुत ° । २, चर्चितेष्वपि चर्धनम् - T. | ३, प्रयोजनःभिधानम् । ४, श्रोतृजनप्रवृत्त्यर्थत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001073
Book TitleHetubindu Tika
Original Sutra AuthorDharmakirti Mahaswami
AuthorArchatt Bhatt, Durvek Mishra Pandit, Sukhlal Sanghavi, Jinvijay, B Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year1949
Total Pages523
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, B000, & B999
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy