________________
पृ. २०९. पं. २.] हेतुबिन्दुटीकालोकः। वार्थकथनं प्रतिहेतुरहितायाम् [२०६.३] इति । साध्यप्रतिपक्षसाधको हेतुः प्रतिहेतुः तद्रहितायाम् । सिषा धयिषितविरुद्धं न व्यभिचरतीति ।
तथा ज्ञातत्वं चा[२०६.६]परं रूपमिति प्रागुक्तमनुवर्तते। यथोक्तबाधाप्रमाणेन साध्यधर्मनिराकरणं तस्मिन् [२०६.१७] साध्येऽसति [२४६.१७] ।..
बतेति [२०७.२] निपातोऽनुविषये । यंत्रव्य[२०७.३Jशब्देन प्रकरणा- 5 दाकर्षकनिष्काषकलक्षणे यन्त्रे वक्तव्ये । .
यथा किल केनचित् कुतूहलिना कश्चित् तपस्वी स्त्रीरूपधारिणीं तृतीयां प्रकृति परिचरणायोग्यां शब्दवाच्यामुद्राह्य पुत्रं तदर्थक्रियां वा व्यपदेशेन प्रार्थ्यते तेन तुल्यमिदं यदविनाभावविकलं हेतुमुपदर्य धर्मिणि साध्यकथनमिति मन्वानः परोपहासपूर्वकमाहाचार्यः शण्ढमुद्राह्ये २०७.१५]ति मूलमनूद्यस्यात्व(र्थः) प्रकृते योजयन् दर्शयति-तस्मिन्नि 10 २०७.१५]ति । तस्मिन् साध्यर्मिणि साध्यधर्मसाधनशक्तिविकलं [२०७.१६] साध्यधर्मप्रकाशनशक्तिवियुक्तम् । तद्वैकल्यञ्च तस्य तत्र तदविनाभावितयाऽनिष्टेः । शब्दार्थस्यैतद्व्याख्यानं प्रतिच्छायया द्रष्टव्यम् । उद्वाह्य[२०७.१५] पदार्थ तथैव ब्याचक्षाण आह-परिणाय्ये[२०७.१६]ति । परिणाय्यपदेन च तत्संबन्धत्वोपदर्शनं तल्लक्षितम् । तल्लक्षणं' पुत्रं मृ'ग्यते[२०७.१७] प्रार्थ्यते याच्यत इति 15 यावत् । ननु चान्यत्राविनाभाव्यपि हेतुस्तत्र साध्यं विभावयेदिति कोऽयमुपहास इत्याह नही[२०७.२०]ति । यदम्भस्तल्लवगरसं यथा. सामुद्रम् । अम्भश्चेदं नादेयमिति प्रयोगे चैतदुच्यत इत्यवसेयम् । लवणतया (२०७.२१] लवणरसतया । .....
अम्भस्त्वादिषु [२०७.२५] हेतुतयोपनीतेषु तथा दर्शनात् । अबाधितधर्मा २०७.२७] अबाधितसाध्यधर्मा ।
20 तन्नियतस्य (२०८.१३] बाधकप्रमाणवृत्तिनियतस्य । व्यापकाभावे व्याप्यस्याप्यवश्यमभाव इति भावः । तद्भावस्य [२०८.२०] साध्यभावस्य । अतएवे[२०८.२१]ति बाधकप्रमाणे सति साध्याभावादेव । । तदभावेपि [२०८.२३] बायकप्रमाणवृत्त्यभावेपि वा भावात्ः साध्याभावस्येत्ति प्रकरणात् ।
हेतोः सामर्थ्य हेतुसामर्थ्य तत्प्रतिपादयन्नाह परः [२०९.२] । कथं [68a] हेतुसामर्थ्य प्रतिपादयतीत्यपेक्षायां योज्यम्-तत्रान्यथात्व मि[२०९.१]ति । १. मृगयते ।
२. तान्यथाऽयमिति S ....
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org