________________
४०२
पण्डितदुवैकमिश्रकृतो [पृ. २०२. पं. १६तर्हि किं निबन्धनोऽसद्व्यवहार इत्याह-यस्त्वि [२०२.११]ति । प्रसङ्गेना[२०२.१३]स्यैव प्रस्तावेनालं न किञ्चित् । अत्र धर्मोत्तरः प्राह-"तदेकाकारनियतं पटीयोऽपि प्रत्यक्ष नाभावव्यवहारं प्रवर्तयतुमलमदृष्टानामपि सत्त्वान्नित्यं शक्यमानानुपलम्भ व्यभिचारो छभावः” इति । दृश्यत्वविशेषणापेक्षायां चानुपलब्धिरेवायातेति चाभिप्रैति । 5 अत्र तु यथा प्रतिवक्तव्यं तथाऽस्माभिः स्वयूथ्यविचारे विचारितं विस्तरेणेति तत एवापेक्षितव्यमिति ।
यद्यपि बहुप्रकारानुपलब्धिम्तथापि मूलभूतप्रकारप्रदर्शनार्थ त्रिविधे[२०२.२१]त्युक्तं द्रष्टव्यम् । सविशेषणा [२०२.२८] सह विशेषणेन उपलब्धिलक्षणप्राप्तत्व
लक्षणेन वर्तत इति । 10 तथा कारणव्यापकानुपलब्धिलक्षणस्ये[२०३.२६ति कारणब्यापकयोर्या
ऽनुपलब्धिः तद्विविक्तप्रदेशज्ञानात्मिका तल्लक्षणस्येति । सिद्धसम्बन्धयो[२०४.३]रिति कारणब्यापक योरिति मूलप्रन्थस्यापेक्षणात् सङ्गतमिदम् । तथाभावदर्शने[२०४.१०Jति एकदर्शनेनान्यदर्शने तथैकादर्शनेनान्यदर्शनेऽपि भूयस्त्वविशेषणत्वे च क्रियमाणे लोह
लेख्यत्वपार्थिवत्वादिना प्रत्ययवत् तल्लब्धी तद्विविक्तपदार्थज्ञानात्मिके तयोः संदेहरूप15 खात् । तदभावस्य च तयोः कारणव्यापकयोरभावस्य च संदिग्धलक्षणता वाच्या। एतदेव
विदर्भवचनेन मात्रया दर्शयन्नाह-[67b7'पुरुषस्य त्वि[२०४.११]ति । यदृच्छासंवाद [२०४.१२] इति ब्रुवतो यथाऽऽमलककषायरसत्वादिना संस्कारादिना भन्यथाभावसम्भवेऽपि · साहचर्यादर्शनसंवादस्तथा विवक्षितेऽपि भविष्यतीति भावः ।
प्रतिवन्धः [२०४.१६] सम्बन्धोऽभिधातव्यो न तत्प्रतिबद्धत्वं यथाऽन्यत्र । 20 साध्यसाधनयोरि[२०४.१६]त्यादेरनुपपत्तिप्रसङ्गात् । प्रतिबन्धे चेष्टौ च सर्वेषां
साधनवत्त्वेन च साध्यवतां साध्याभाववत्त्वेन च साधनाभाववतामर्थतां द्रष्ट्रम(१) पेक्षत्वेपि व्याप्तिमतोरन्वयव्यतिरेकयोनिश्चयः सञ्जायते । सोयमुपानटधर्ममात्र (?) पृथिव्याच्छादनं न्यायः प्रायः प्रकारो द्रष्टव्यः।
जरन्नैयायिकाभिप्रायेण नैयायिक[२०५,२३] ग्रहणमस्य बोद्धव्यम् । अधुनतनाः 25 पुनरन्वयन्यतिरोकिणं पंचलक्षणमन्वयिनं व्यतिरोकिणं चतुर्लक्षणलक्षणमाचक्षत इति सामान्येन
नैयायिकग्रहणे व्याख्यायमाने तन्मतावेदनमस्यावेदितं स्यादिति । संख्यामा गुणत्वेन द्रव्याश्रितत्वाडेतुद्रव्यस्ये[२०५.२८]त्याहू । एकसंख्यानवच्छिन्नायामित्यस्यै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org