________________
पृ. २०२. पं. १०.] हेतुबिन्दुटीकालोकः।
४०१ स तथा तस्य यदुपलम्भ उपलभ्योपलभमानधर्मः स आत्मा यस्य [२००.१०] तस्मात् । चो [२००.१०] व्यक्तमेतदित्यस्यार्थे । यद्वा उपलम्भशब्देन ज्ञानमात्रस्याभिधानं । तेन तु तत्तुल्ययोग्यतारूपोपलभ्यमानसेन इति समुच्चीयते इत्येवंरूपादनुपलम्भात् । अन्यथा व्याख्याने तूपलब्धिलक्षणप्राप्तस्येत्यसङ्गतं स्यादिति । न तु सामान्येन [२००.१०] अनुपलम्भमात्रादित्यर्थः । किमेवंवादिनोऽपि सम्भवति येनैवमुच्यत 5 इत्याह-यथाहुः पर [२००.११] इति । वस्तुसत्तावबोधार्थ [२००.१३] यत्र वस्तुरूपेण प्रमाणपश्चकं [67a] न जायते तत्रति [२००.१२] योज्यम् । पञ्चावयवा यस्येति पञ्चकम् । “संख्यायातिसदत्ताया कन्" इत्यनेन कन् । प्रमाणं च तत् पञ्चकं चेति पश्चात् कर्मधारयः कार्यः प्रमाणपञ्चकं [२००.१२] न जायत इति च पञ्चानां प्रमाणानां मध्ये यत्रैकमपि न जायत इत्यर्थः । सति वस्तुनि 10 तदनुदय एव कथमित्याह सत्यपी[२००.१५]ति ।
तद्विषयाया उपलब्धे[२००.१९]र्लिङ्गत्वमपि प्रकरणात् । तदभावेन . सह सम्बन्धाभावस्य तुल्यत्वादि[२००.२५]ति योज्यम् । 'भावरूपाया उपलब्धिरूपभावरूपायाः ।
कस्मात् सकाशात् प्रमाणान्तरं प्रत्यक्षादिकं नास्तीत्याह-अन्यभावविषयोप- 15 लब्धेरि[२०१.२७]ति । किमिति [२०२.६] सामान्यतः पृच्छति । पुनरि- . [२०२.६]ति विशेषतः सोऽन्यभावो [२०२.६] योसौ केवलप्रदेशलक्षणोऽन्यभावः .. " प्रत्यक्षलक्षणेने[२०२.७]न्द्रियजप्रत्यक्षलक्षणेन। एतच्च प्रायेण लोको यस्मात्. केवलमिदं मूतलं वेद्यते तस्माद् घटोऽत्र. नास्तीति प्रत्ययमुखेन .प्रतिपद्यत इत्यभिप्रायेणोक्तं द्रष्टव्यम् । अनुपलम्भेन सिद्ध २०२.८] इति च तस्यापि प्रत्यक्षस्य तदनुपलम्भ- 20 रूपत्वात् वास्तवानुवादो बोद्धव्यो न तु तस्यानुपलम्भरूपताप्रतिपादनमिदानी प्रकृतं नाप्युपयुक्तमिति । अभावव्यवहारं साधयेत् [२०२.८] नाभावमित्यर्थात् , तस्य केवल प्रदेशोपलब्धिकाल एव सिद्धत्वादिति भावः । ननु अनुपलब्ध्या अभावव्यवहारः साधनीयों' न चासौ प्रदेशस्तथेत्याह कर्मस्थक्रियापेक्षये[२०२.८)ति । उपलब्धेः कर्मस्थत्वापेक्षया तत्पर्युदासेनान्यभावस्य तथात्वमित्यर्थः । प्रत्यक्षेणाभावव्यवहारं 25 प्रवर्तयितुमनीशानोऽस्य मते मूढो वाच्यस्तस्य प्रतिपत्तौ[२०२.१०] प्रतिपत्तिशब्देन चाभावव्यवहारैकदेशो ज्ञानलक्षणो अनुष्ठानलक्षणो वा वक्तव्यः । तस्यां साध्यायां व्यवहारश्च तदितरो द्रष्टव्यः । मूढं प्रतिपत्तारं प्रति तं साधयति नामूढमिति च समुदायार्थः । अमूढस्य . ..१. अन्यभावरूपायाः S
२. पेक्षायाम् S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org