________________
४००
पण्डितदुबैकमिश्रकृतो ['पृ. १९८. पं..४ साधनमेव कुत इत्यपेक्षायां सर्वस्यान्यतया व्यासिसाधनादिति[१९८.४] .. योज्यम् ।
एकस्य प्रमाणस्य व्यापार एष [१९८.६] इति ब्रुवतोऽयं भावः-.. तस्यैवैकस्य प्रमाणस्य वृत्तं विमृष्यमान(ण)मेवमवतिष्ठते । यत इति तद्रूपत्वात् 5 [१९८.१०] परासंकीर्णरूपत्वात् । वस्त्वनतिक्रमेण यथावस्तु [१९८.१०] इति दृष्टतदन्यत्वेन सर्वस्य व्याप्तिसाधनादित्यपि प्रमाणवृत्तविचारेणोच्यत इत्यवसातव्यम् । .. इतिना[१९८.२७] [नान्तरोकस्य न्यायस्याकारों दर्शितः । अनन्यसहायत्वं [१९९.१] च कार्यस्य [१९९.१) एकजातीयकार्यापेक्षया द्रष्टव्यम् । द्वयोर्भावो द्वितैव
दैतं तत्सिद्धेः [१९९.३] । ह(प्र)तीयत्येव [१९९.६] बुद्धिः व्यवस्थापक10 काल एवा[१९९.६]तद्रूपं ततः पृथक् करोतीति अनुवर्तनीयम् । इतरथा शतृप्रत्ययस्या
नुपपत्तिः प्रसज्येत । अत्र कथं प्रत्ययान्तराभावः सिद्धयतीत्यपेक्षायामाह-तद्विपरीते. [१९९.६]त्यादि। - एकप्रमाणनिवन्धनां [१९९.९] इति प्रत्यक्षैकनिबन्धनामनुमानैकनि बन्धनां वेति विवक्षितम् । न तु. परोप्येनामनेकप्रमाणनिबन्धनाम् इच्छति यदनेन व्यवच्छिद्येत ।' 15 अभावप्रमाणमात्रनिबन्धनतया तेनोपगमादिति तस्योपलभ्यमानस्य [१९९.११]
तदात्मनो [१९९.१२] व्यवच्छेद [१९९.१२] इति सम्बन्धः । ' तदन्यात्मन' इति मूले निर्देशात् कथं त्वया तदन्यात्मताया [१९९.१४] इति व्याख्यायत इत्यनुयोगमाशङक्याह भावप्रधानत्वानिर्देशस्य [१९९.१४] इति । .
अवच्छिद्यते [१९९.१८] व्यवच्छिद्यते । सा तदेकाकारनियता प्रतिपत्तिः । 20 स च [२००.३] तद्देशकालश्च स्यात् । तद्देशता च लोकप्रसिद्धदेशाभिप्रायेणोक्ता · द्रष्टव्या । न तु वस्तुतो मूर्त वस्तु वस्त्वन्तरेणैकदेशं नामेति । नो चेत् कथमिति
वर्तते । अभावसिद्धिरि[२००.९]त्य भावव्यवहारसिद्धिमूढ़ प्रतीति च द्रष्टव्यम् । अमूढस्य प्रत्यक्षादेवाभावव्यवहारसिद्धेः । एतच्चानन्तरमेव प्रतिपादयिष्यते । यथोक्तमेवा
नुपलम्भं दर्शयितुमाहोपलब्धिलक्षणप्राप्तस्य [२००.९] इति । अनुपलम्भादिति 25 चावर्तनीयम् । तेनायं वाक्यार्थः-उपलब्धिलक्षणप्राप्तस्यानुपळम्भादिति । ननु उपलब्धिलक्षणप्राप्तानुपलम्भ एव कीदृशो यस्मात् तत्सिद्धिरित्याह तत्तुल्ये[२००.१०]ति । तेन निषेध्येन सह तुल्या स्वज्ञानोपजननं प्रति योग्यता सैव रूपं स्वभावो यस्य १. व्यवस्थापनाकाल एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org