________________
पृ. १९८. पं. ४.]
हेतुबिन्दुटीकालोकः ।
प्रतियदेवमन्याभावं प्रत्येतीति व्यपदिश्य [१९२.२०] तद्योगाद [ १९२२०]न्यभावप्रतिपत्त्ययोगात् । यश्चान्यो विकल्पो पाश्चात्यो [१९३.८] विधिविकल्प. इर्त्यर्थात् । अभावाख्यप्रमाण [१९३.९] नेत्यनुवर्तनीयम् । वहनं वहित्रं तदारूढैः [१९३.१७]।
तदात्मनो [१९५.५] शेषपदार्थवृत्तात्मनः सकाशात् तत् [१९५.६ ] प्रत्यक्षम् । 5 तत्प्रामाण्यसमाश्रिता [१९५.७] अभावप्रामाण्यसमाश्रिता ।
स्वभावत एव [१९५.१०] स्वहेतुत एव । तस्या (स्य) [१९५.१३]
अभावाख्यस्य प्रमाणस्य ।
३९९.
11
अध्यात्मनः [१९५.२४] परात्मनः सकाशात् । तदन्यभ्यो निवर्तनं [१९६.१] व्यवच्छेदनं तस्य गृह्यमाणस्येत्यर्थात् तत्परिच्छेदप्रसङ्गात् 10 [१९६.७] अन्यात्मपरिच्छेदप्रसङ्गात् ।
तदात्मन: [१९६.१०] सकाशादशेषमन्यन्निवर्तयतीति वर्तते । तदात्मनोपलभमानेति कथमुच्यत इत्यपेक्षायां तथाविधस्वभावस्यैवानुकारादि [१९६.१३]ति योज्यम् । उपलभमाने [ १९६.१४ ]ति हेतौ शानयोर्विधानाद्धेतुपदमिदमन (मव) • वसेयम् । 'अन्यदेशे[१९६.१५]त्यादि तथात्वप्रच्युते [ १९६.१४ ]र्व्याख्यानम् 1 15 तथाभूतादि [ १९६.२४ ]त्यादेर्मूलग्रन्थस्य अभावात् कार्यमाह । अभावकल्पनया[१९६.२८] इत्यभावप्रमाणकल्पनयेति प्रकरणात् । विषयमेवा ( विषयेणैव) विषयिणो निर्देशात् द्रष्टव्यम् ।
'अन्यच्चैवमात्मकं [ १९७, १] न भवतीति वर्तते । ततो [१९७.३] निर्विकल्पकात् प्रत्यक्षात विधिप्रतिषेधविकल्पावि[ १२७.४ ]ति यथावासना - 20 प्रबोधं' विधिविकल्पञ्चेति बोद्धव्यम् । अथ वैकल्यस्य ( ? ) साक्षादितरस्य सामर्थ्याज्ज्ञानाद्.. विधिप्रतिषेधविकल्पद्वयोपजनन उक्तः । तदर्थादिति [१९७.२१] तत्त्वान्यत्वाभ्याम् - भिन्नतया विकल्पता (ना) दित्यर्थः । येन निमित्तेन विवक्षितस्य ततोऽन्यत्वं न व्यवस्थाप्यते, तस्य निमित्तस्य समानत्वात् [१९७.२७] । कथं प्रकारान्तराभावं सूचयतीत्य - पेक्षायां योज्यम् [66b] 'तद्विरुद्धस्येति [ १९८.४] तेन परिच्छिद्यमानेन विरुद्धस्यै - 25 तत्परिहारेण व्यवस्थितस्य तदसंकीर्णस्येति यावत् । तद्विरुद्धस्य सर्ववस्तुनो द्वैविध्य
१. अन्यथैतदात्मकम् S इति तु न सम्यक् । २. ततोऽर्थात् S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org