________________
पण्डित दुवै मिश्रकृतो
पृ. २०५.प. २०
दर्शयन्निति [२०९.२] हेतौ शतुर्विधानात् तत्राबाधाया अन्यथात्वप्रदर्शनादित्यर्थः । तत्सिद्धये [२०९.६] साध्यसिद्धये । यत्रासौ तदर्थमभिधानीयः स हेतुप्रयोगस्य विषयः [२०९.६] ।
કંઠધ
वै[२०९.९ ] शब्दोऽक्षमायां बाधानुपलब्धिरबाधेत्यादि यदुच्यते तन्न क्षम्यत इत्यर्थः । 5 किंन्वि [२०९.९ ]ति निपातानिपातसमुदायः ' प्रश्ने । तस्या [२०९,१०] इतिर्मात्रार्थानां भयहेतुरपादानमित्यपादानत्वादपादाने पञ्चमीयम् ।
काकु [२०९.१६] शब्देनात्र वचनविन्यासो विवक्षितः । प्रश्नार्थस्य किं शब्दस्याप्रयोगेपि काकुरेव शिरः कम्पसहिता प्रश्नं प्रकाशयतीत्यभिप्रायेण पृच्छती [२०९.१६]ति व्याचष्टे । बाधानुपलब्धिरवाघेति अभिधानादुक्तमेतदि [ २०९.१६, १७ ]त्यभि10 प्रायवान्परः प्राहोक्तमेवै तदिति । किमर्थे प्रयुज्यते [२०९.१८] स हेतुरिति सामर्थ्यात्। अभावनिश्चयं [२०९,२४] परमार्थतोऽसद्भावनिश्चयं प्रति ।
संशयितस्य [२१०.६] बाधां प्रति जातसंदेहस्य | ज्ञान [नि] वृत्त्या [२११.४] बाधकज्ञान[नि]वृत्त्याऽसौ साध्यबाधा ।
आदि [२१२.२१] शब्दादनुमानविरुद्धादेः संग्रहः तेषां [२१२२३] प्रत्यक्ष15 विरुद्धादीनाम् उपवर्णनं [२१२.२३] स्वरूप प्रदर्शनम् ।
तद्भावायोगाद्विषयत्वायोगात् साधकप्रमाणस्यानुमानस्यावृत्तेर्यदुक्तं "व्यस्तो हेतोरनाश्रय" इति भावः । 'किं यथा बाधाविनाभावयोरि[ २१३.९ ]ति पाठो युक्तरूपः । किंशब्दवियुक्ते तु पाठे सशिरः कम्पयाकांक्षा एवंवदतः प्रश्नोऽभिप्रायगतो द्रष्टव्यः ।
1
तल्लक्षणं [२१३.१४] तस्य हेतोः लक्षणम् । अन्वयव्यतिरेकात्माऽविनाभावः 20 [२१३.१४] । लक्षणशब्दस्य चासति बहुव्रीहावजहल्लिङ्गत्वात् स्वलिङ्गेन निर्देशः । विरुद्धस्यापि विपर्यये सम्यग्धेतुत्वात्तदभिप्रायेण विपर्ययस्य चे[२१३.२३]त्युक्तम् । भावसिद्धि [ २१४.१४ ] स्तत्त्व सिद्धिस्तदयोगात् ।
विवक्षितैक संख्यत्वप्रतिपादित[२१४.१७ ]मिति विवक्षितैकसंख्यत्वशब्देन प्रतिपादितमित्यर्थः । 'पूर्वकस्ये [ २.१४.२१ ]त्यलक्षणमेतदित्यस्य । अत्रापि बाधितत्वादि25 रूपान्तरयोगिन्यपि पूर्वयोजितमुपदर्शितम् ।
:
निष्प्रमाणिके [२१४.१९ ] त्येतद्धेतुभावेन विशेषणम् । स इति [ २१५.३] स एवेति विवक्षितं । निरस्त प्रतिपक्षत्वमेव कुत इत्याह- तथाविधे [ २१५.१२] तथा १. कथं - यथा बाधाविनाभावयोः S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org