________________
पृ. १६७. पं. २८.] हेतुबिन्दुटीकालोकः।
३८१ पादयन्नाह नहीं[१६७.१३]ति । प्रत्यक्षमेकमनुमानात्मकं यद्वा । तस्य[१६७.१६] प्रत्यक्षस्यानुमानस्य वा। ततो भावांशात् । किं कुर्वत् तर्हि तदभावप्रमाण[59a7'व्यपदेशमश्नुत इत्याह भावांश (अभावांशे) [१६७.१४] जनयदिति [१६७.१५] हेतावयं शतृप्रत्ययः प्रत्येयः । तदित्यन्यविषयज्ञानम्। तदिन्द्रियजन्मनि ज्ञाने यदवभासते स तस्य विषयस्तत्पतिपत्तिजनकत्वेन लभत इत्यभिसंबन्धाद् द्वितीया साधन[१६७.१८]- 5 पदसंस्कारवेलायामनुपलब्धि पेक्षितेति तथा निर्देशः। कथं तर्हि स सिध्यतीत्याशंकायामाचार्यदेशीय स्यैवाभिप्राय वर्णयन्नाह अनुपलब्धेरि[१६७.१८]ति । यदि विमृश्यमानम् 'अघटमेतद्भूतलम्' इति प्रतीतिर्नातिशेते ‘तद्घटो नास्ति' इति ज्ञानम् प्रतियोगिस्मरणसहायेनेन्द्रियेण जन्यमानत्वात् तज्ज्ञाना[न]न्तरभावि संयुक्तविशेषभावलक्षणात् इन्द्रियार्थसन्निकर्षात् जायमानं प्रत्यक्षं सदेव प्रमाणान्तरमनुमानादेः प्रमाणादन्यत् 10 प्रमाणम् । यद्वा विशेषवचनोऽयमन्तरशब्दः । किं भूतं सदेतत् प्रत्यक्षं प्रमाणमित्याहअनावस्य [१६७.२५] इति । तुच्छरूपस्य [१६७.२१] इति भावरूप- .. शन्यस्येति बोद्धव्यम् न त्ववस्था(त्वस्त्वात्मन इति तन्मतेनाभावस्यापि वस्तुत्वात् ।
___ ननु च नेदं प्रत्यक्ष प्रमाणं, अपि तु सन्निकर्षस्य प्रत्यक्षप्रमाणस्य प्रमाणरूपं फलमेतत तत् कथ मेवमुक्तमिति चेत् , सत्यमेतत् । केवलं हानादिबुद्धिरूपं फलं प्रधानमिदं 15 प्रमाणमभिप्रेतम् । परिच्छेदात्मकमि[१६७.२१]ति च परिच्छिद्यतेऽनेनेति परिच्छेदस्तदात्मकम् । परिच्छित्तिस्तूपादानादिधीरेवेति । यदि वा प्रमाणशब्देनोपचारात्फलमेवाभिप्रेतमिह एवंभूतं प्रत्यक्षप्रमाणफलान्तरमाच क्षाणैश्च सामर्थ्यात् यत एतद्भवति तत् प्रत्यक्षं प्रमाणमिति दर्शितमिति सर्वथाऽवदातम् । तेषामेव बौद्धं प्रति वक्रोक्तिं दर्शयन्नाह-तदेव [१६७.२१] इति तदेव प्रमाणमनन्तरोक्तं यत् । प्रतिवादिनां तीथिकानामाचार्यदेशी- 20 यानां च तन्निरासार्थ [१६७.२ ४] बुद्धिभेदनिरासाथै, विप्रतिपत्तिनिरासार्थमिति यावत् । उपलब्धिलक्षणप्राप्तिर्यस्याऽस्ति स खलूपलब्धिलक्षणप्राप्त उच्यते । सैव तु कीदृशी यत्प्राप्तोऽर्थस्तथोक्तो वार्तिककृतेत्याशङ्कयोपलब्धिलक्षणप्राप्तिमभिप्रेतां दर्शयन्नाह उपलब्धी[१६७.२५]ति । उपलब्धिलक्षणप्राप्तिरेवंरूपा शास्त्रकृता' अन्यत्र व्याख्याता [१६७.२९] इति सम्बन्धः कार्यः । प्रत्यय- 25 [१६७.२६शब्दः प्रत्येकमभिसम्बध्यते । 'हेतुप्रत्यय आलोकादिः, सभनन्तरप्रत्ययः प्राक्तनं विज्ञानम्, अधिपतिप्रत्ययश्च चक्षुरादिः, आलम्ब्यत इति कृत्वा आलम्बनप्रत्ययो नीलादिः स। किमर्थम् सा तथारूपा शास्त्रकृता [१६७.२८] १. दुवेकानुरोधेन ' हे तुसमनन्तरे'त्यादि पाठः सम्यग् भाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org