________________
३८२
पण्डितदुःकमिश्रकृतो [पृ. १६८. ५.१. अन्यत्र व्याख्यातेत्याशङ्कायामाह-नैयायिक [१६८.१] इति । विपति- . पत्तिमेव दर्शयन्नाह-ते हि [१६८.१] इति । द्र'व्याणामु[१६८.२] पलम्भकानीति वदता च यत्रैतानि सन्ति तदुपलम्भे निमित्तं द्रव्य एव च सन्तीति
द्रव्यस्यैवोलम्भे निमित्तम् अमूनि नोपलम्भमात्र इति दर्शितम् , अन्यथा अभावसमवाययो5 रुपलब्धिर्न स्यात् । न च नास्ति संयुक्तसमर्थतया विशेषणभावेन तयोरुपलम्भस्य
नैयायिकैरिष्टत्वात् । [59b] एवं गुणादीनामपि तथा तथोपलब्धेरिष्टत्वादिति । एवमेषामभिधानं कुतो ज्ञायत इति आह महती[१६८.२]ति । एतच्च प्रतितन्त्रसिद्धान्ताश्रयणेन एवं वचनादि[१६८.३]त्याचष्ट इति द्रष्टव्यम् अन्यथा
असंगतमुक्तं स्यात् वैशेषिकसूत्रत्वादस्येति । अस्यायमर्थो महत्त्वयुक्ते महत्युपल10 ब्धिर्भवति न द्वयणुकादौ । यदि महत्त्वादुपलब्धिस्तर्हि परममहत्त्वेप्यवकाशादौ सा किं न
भवतीति पर्यनुयोगाशंकायां तद्व्यवच्छेदार्थमुक्तमनेकद्रव्यत्वादिति । अथवा अनेकद्रव्यावयवास्तद्वत्त्वमवयविनो महत एव न द्वयणुकस्येत्युत्पत्त्यान्यनिरपेक्षत्वं महत्त्वानेकद्रव्यत्वयोरिति लक्षणविकल्प एवायं विवक्षितं बोद्धव्यम् । अनेकं द्रव्यमारम्भकतया विद्यते यस्य तद्भावस्त स्मात् । अनेकद्रव्यवत्त्वादिति पाठे सर्वधनादेराकृतिगणत्वेन गण15 पाठादस्य बहुव्रीहिप्रतिषेधेन शतुर्विधे द्रष्टव्यः (मतुविधिःदृष्टः) अन्यथा कर्मधारयमत्त्व यात्
बहुव्रीहिलाघवेनेष्ट इत्यनेकं द्रव्यं [यस्य] स तथा तद्भावस्तस्मादिति निर्देशः प्राप्नोति अनेकद्रव्यवत्त्वा(व्यत्वा)दिति पाठे तु न कश्चिदायासः । यदि 'महत्त्वादनेकद्रव्यवत्त्वादन्यत[]स्माद्वा उपलब्धिर्वायावपि सा स्यात् । तन्निवृत्त्यर्थमुक्तं रूपादि[१६८.३]ति ।
ननु चानयोपलब्धिलक्षणप्राप्त्या युक्तस्यानुपलम्भतोऽभावसिद्धेरनुपलब्धिस्तावल्लिङ्गत्वेन 20 तैरिष्टैवेत्याह-एवं च [१६८.३] इति । अनैकान्तिकोत्याचक्षते [१६८.५]
त एव नैयायिकाः । कुतोऽनैकान्तिकीत्याशङ्कय 'तन्मत एव स्थित्वा आह-सत्यपि [१६८.४] इति । एतदेव तन्मत्यैव निदर्शनेनोपपादयन्नाह-नहि [१६८.५] इति । 'न भवन्ति न सन्ति । भाष्यकारः प्रकरणात् न्यायभाष्यकारः पक्षीलस्वामी ।
अनुमानत उपलब्धिमेव तदीयां दर्शयितुमाह-इन्द्रियत्वात् [१६८.८] इति । 25 प्राप्यकारी [१६८.९] विषयं प्राप्य तेन सह संयुज्य तत्र ज्ञानं जनयतीत्यर्थः । एत
वार्थकथनमवसेयम् न तु अनुमानप्रयोग एष। पञ्चावयवस्य वाक्यस्यानुपदर्शनात्। भवनैकान्तिकत्वं कीतन(तदनैकान्तिकत्वकीर्तन)मेवोपसंहरन्नाह-तदेवमि[१६८.११]ति । अनैका
१. दुर्वकानुरोधेन 'द्रव्याणामुपलम्भकान्याह' इति पाठः स्यात् । २. मूले 'भवन्ति' इत्येव मुद्रितं किंतु 'न भवन्ति' इत्येव पाठोऽनुटीकागतः साधुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org