________________
३८०
पण्डितदुवैकमिश्रकृतो . [पृ. १६६. पं. ४स्यादित्याह तद्विलक्षणस्ये[१६६.३]ति । तद्विलक्षणस्याग्न्यादिसामग्रीविलक्षणस्य । याऽग्न्यादिसामग्रयाऽन्यादृशी सामग्री सा तच्छब्देन प्रत्यवम्रष्टव्या । तस्याविलक्षणस्याग्यादिकारणकलापस्य य आत्मातिशयः शक्तिशब्दवाच्यस्तस्यासंभवाद[१६६.४]योगात् । अनग्न्यादिरूपस्य कारणकलापस्याग्न्यादिसामग्री5 शक्तियोगासंभवादिति समुदायार्थः । तदाऽऽत्मातिशययोगेऽपि कथमग्न्यादिरूपत्वं तस्येत्याह स एव ही[१६६.४]ति धूमं जनयति सहकारिकारणत्वेन । स्वजातिमनुकारयत्यु[१६६.५]पादानभावेन जनयतीत्यर्थः । यदि चे[१६६.६]त्यत्र चशब्दस्तुशब्दस्यार्थे । तां सामग्रीमग्न्यादिसंज्ञया वयं व्यवहरा
मो भवन्तस्तु शक्रमूर्धादिसंज्ञया व्यवहरन्ते अतो नाम्नि संज्ञायामेव विवादः स्यात। 10 [१६६.७] कथं पुनर्नाम्न्येव विवादो नान्यत्रेत्याह अर्थाभेदमि[१६६.७]ति ।
अर्थाभेदं तथा धूमजननशक्तिलक्षणमभ्युपगम्य तथाभिधानात् [१६६.७] शक्रमादीत्यभिधानात् । धूमादिकं कार्य कर्तृ कथं निश्चितमित्याह-अतद्रूपे[१६६.९]ति । कारणमिन्धनादिकं कर्म न व्यभिचरति । क्षणापेक्षापक्षे तु
कारणमिन्धनादि क्षणरूपमित्यवसेयम् । अव्यभिचारस्याकारं दर्शयति - तद्विलक्ष15 णादिति। इतिहेतौ सिद्ध्यति [१६६.१२] निष्पद्यत इति ।
कार्य हेतुं व्याख्यायाऽधुनाऽनुपलब्धि व्याचिख्यासुर्यतस्ततस्तदुत्थानं तदुपदर्शयितुं तदेवमि[[१६७.३]त्यादिनोपक्रमते । भवदुत्पद्यमानं दृष्टं निश्चितं सकृदि.. [१६७.३]ति सकृदपीति ज्ञेयम् । प्रत्यक्षानुपलम्भाभ्यां [१६७.३] यथा
व्याख्याताभ्याम् । तथाविधादेवे[१६७.४]त्यवधारयतोऽनन्तरोक्तैवोपपत्तिः बुद्धिस्था। 20 अवधारणेन प्रतीयमानमप्यतथाविधाज्जन्मनिषेधं कण्ठोक्तं कुर्वन्नाह-ने[१६७.४]ति । व्याप्त्या [१६७.५] सर्वदेशकालपरिग्रहेण । तुरनुपलब्धि भेदवतीं दर्शयति । यादृश्युक्ता यथोक्ता [१६७.७] तस्यां दृश्यत्वविशेषणायामित्यर्थः । निमित्तान्तराभावोपदर्शनं प्रागुक्तमिति भावः । स्वरूप[१६७.८]ग्रहणमुपलक्षणं तेन व्यापारेपीत्यपि प्रत्येयम् ।
अत एव व्यापारस्य पश्चादर्शयितव्यत्वात् । क्रमे तावच्छब्दं प्रयुञ्जानोऽनुपलब्धिस्वरूपं 25 "तावदर्शयतीति वक्ष्यति । ए[व] का[१६७.८]रस्त्वन्वयव्यतिरेकविषयविप्रतिपत्तिमात्रनिरासार्थः । यथाश्रति व्याख्याने तु तथेत्यादि वक्ष्यमाणमसंगतं स्यात् । तथाही[१६७.८]त्यादिना स्वरूपविषयविप्रतिपत्तिं प्रतिपादयति । तथा चेश्वरसेनश्वरकव्याख्याने प्रमाणान्तरत्वेनेमामुपदर्शयां बभूव । प्रतिषेध्यविषयज्ञानविषयस्पेणापरि
णाम[१६७.११]स्तद्विषयज्ञानानाधारत्वं तद्ग्राहकत्वेनानवस्थानमात्मनो मन्तव्यम् । .03 तज्ज्ञानाधारत्वप्रतिषेधमात्रविवक्षया च पक्षान्तरमिति प्रमाणान्तरत्वमेव तदन्यविज्ञानाश्रयेणोप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org