________________
पृ. १६६. पं. ३.]
हेतुबिन्दुटीकालोकः । तादा[१६३.१७]कारसाम्यादेः परमार्थतो भेदेऽप्यता शत्वेप्युपलक्षणाद् दर्शनान्नैवमिति द्रष्टव्यम् । एवमुपलक्षणत्वादस्य भेदविचारावसरेऽपि प्रतिभासभेदाढ़ेद इति पूर्वपक्षे प्रतिभासभेदस्य च कुतश्चिद्धान्तिनिमित्तात्परमार्थतोऽभेदेप्युपलक्षणादिति वक्तव्यम् । उभयत्रापि तु यदि प्रतिभासभेदाभेदावप्यपरप्रतिभासभेदाभेदनिबन्धनौ तत्रापि तत्प्रत्यनवस्था तस्मादा द्ययोरपि तथात्वं व्यवस्थापयितुं न शक्यत इति दोषो दर्शयितव्यः तयोः । [१६३.२१]भेदाभेदयोः । तस्य [१६३.२२] खभावस्य । ताभ्यां [१६३.२२] भेदाभेदाभ्याम् । तेभ्यो भावस्वभावभेदाभेदेभ्योऽन्यः स चासो सम्बन्धश्चेति तथा तस्य कल्पना [१६३.२३] तस्याम् । सोपि तेषां कुत इत्याकांक्षायां सम्बन्धाङ्गीकरणं तत्रापि तत्पर्यनुयोगे तदे'वोत्तरमित्यनवस्था। स्वात्मन्येवावस्थानादि[१६३.२४]ति ब्रुवतोऽयं भावो यदि भावखभावे तयोरनुप्रवेशस्तदा स एवावतिष्ठेत न तु तौ। अथ तयो- 10 स्तस्यानुप्रवेशस्तर्हि ताववतिष्ठेयातां न त्वसाविति। पुनर्भेदपक्ष एव दोषान्तरं समुच्चिन्वन्नाह अनुपकाराचे[१६३.२५]ति । यौ भेदाभेदौ तादृशत्वाता दृशत्वलक्षणावसौ प्रतिपद्यते तावपि यदि भिन्नौ [१६४.१] ततो व्यतिरिक्तौ। तावस्था (तदबस्थः)[१६४.२] ने भिन्नं नाप्यभिन्नं यत् तदवस्थम्, यदवस्थं भेदाभेदप्रतिपत्तिकाले। तस्य [१६४.२] भावस्वभावस्य । तस्य [१६४.६] स्वरूपान्तरेण क्रियमाणस्य । तत एव हेतुबलायातात्कुतश्चि- 15 द्भिन्नाभिन्नाद्रूपाद् विशेषसामान्यात्मनो[१६४.११]रित्यत्र विशेषशब्देन स्वलक्षणं न वाच्यम्। तस्य भिद्यत इति व्यु-पत्त्या भेदरूपत्वापत्तेरयोगासिद्धिप्रसङ्गान्नापि विशेषपदार्थस्तस्य विनाशारम्भरहितेश्वे वाणवाकाशादिषु प्रवृत्तेः परेण भेदशब्देनाभिप्रेतत्वात् । किंत्वेकसामान्ययोगेप्यवान्तरसामान्यविशेषः । तयो[१६४.१३ र्भेदाभेदयोः । 'अपेक्षया ही. [१६४.१८]त्यत्रस्थस्य हिशब्दस्य मौलस्य व्याख्यानमेतत् यस्मादि[१६४.१८]ति । 20 टीकाकृतस्तु 'अपेक्षयाहि' इत्यत्रस्थहिशब्दोऽवधारणे, यद्वा हिर्यस्मादपेक्षया तस्येति योज्यम् । द्वावेतौ शतृप्रत्ययौ हेतौ द्रष्टव्यौ।।
साधनानां कारणानां साधनाय [१६५.२] निष्पादनाय कथं नेष्यत इत्याह । विलक्षणादपी[१६५.१०]ति । यादृशं दृष्टं यथा दृष्टम् । यथादृष्टं कार्यं यथादृष्टादेव कारणादुत्पद्यतेति वर्तते । विलक्षणयाऽपि विवक्षितसामग्र्या अन्यादृशापि 25 तल्लक्षणं विवक्षितसामच्या जायमानकार्यसरूपम् । तत्सामग्रीवैलक्षण्याविशेषाद्यस्याः कस्यश्चित्सामग्र्या जायमानं किं तल्लक्षणं न भवतीति ।। ___ तथा च स एव दोष इत्याशंक्य पर एवाह कस्याश्चिदेवे[१६५.२३]ति । अत्रास्मि[58b] पूर्वपक्षे[१६५.२५] यादृशी शक्ति[१६५.२८]रिति योज्यम्। . नामान्तरेण [१६६.३] संज्ञान्तरेण । कथं तदेव नामान्तरेणोक्तं 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org