________________
३७८
पण्डितदुर्वेकमिश्रकृतो [पृ. १६२. पं. २०[१६२.२ ०]ति । यद्येकाकारप्रत्ययनैवनुनैव्यप्रत्यय(निबन्धन)कसन्तानव्यवस्था तदाऽन्यस्य सो(स्वो)पादानेन सहैकसंतानव्यवस्था न स्यात्सा चावश्यवाच्याऽन्यथा स्वसन्ततिपतितकार्यजनकत्वेन या तस्योपादनत्वेनाभिमतस्योपादानव्यवस्था सा न स्यादित्य'भिप्रायवान्परश्वोदयति आद्यस्ये[१६२.२२]ति । जात्यनुविधानं कुतचि(श्चि)द्रूपात् कथञ्चित्तेन 5 सहकप्रत्यवमर्षजननम् । तथाही[१६२.२३]त्यादिनैतदेव समर्थयते । अगुरुजातिभेदानुकरणं तद्धृमस्यागुरुगन्धसहचारितया प्रत्यवमर्षजनकत्वम् । अनुकुर्वन्त्येवेति वर्तते तळूमाः [१६२.२ ४] तद्वर्तिधूमाः । 'तद्भेदानुकरणमेषां कुतो ज्ञायते इत्याह-तद्रू'पे[१६२.२५]ति । यस्मादिन्धनेन सह धूमस्य केनचिद्रूपेण एकाकार
परामर्शजनकतयैकसंतति [व्यवस्थानाद् येन (?) ] तस्मात् इन्धनमेवेति स्थूलेनायं व्यपदेशो 10 वस्तुतस्तु तद्गतासन्तानविशेषस्तस्योपादानकारणं ज्ञेयं सन्तानस्तु तस्याङ्गारादेः ।
यथा चैतत्तथा धर्मोत्तरेण विनिश्चयटीकायां निर्णीतमिति तत एवापेक्षितव्यम् । प्रसज्यते प्रतिपाद्यत इति प्रसङ्गोऽतिशयितः प्रसङ्गोऽतिप्रसङ्गस्तेनालम[१६३.४]तिविस्तरेणेत्यर्थोऽत्र द्रष्टव्यः ।
तस्य [१६३.६] कार्यभेदस्यातादृशत्वलक्षणस्याऽभावात् । तस्येति भेदस्य 15 तस्मिन् सत्यजायमानस्यापि कथमहेतुत्वमिति पार्श्वस्थवचनमाशंक्याह नहीं[१६३.९ति।
असत्यभेदे [१६३.११] प्रकरणादसति सामग्रयभेद इत्यर्थः । कुतः पुनरसत्यभेदे जात इत्यपेक्षायां योज्यं सामग्योरि[१६३.११]ति । हेतौ [१६३.१२] सामग्र्योभेंदेऽन्यादृशत्वलक्षणे सत्यभवतो भेदस्य तथा तद्वत् हेतौ [१६३.१२] सामग्र्यभेदलक्षणेऽसत्यपि भवतो भेदस्येति प्रकरणात् । अभेदस्तादृशत्वमेकजातीयत्वमिति यावत् 20 तस्य निबन्धनत्वात् [१६३.१४] शालिकोद्रवादी भेदस्य भावात्कथं न कचित्पदानुबन्ध
इत्याह शाली[१६३.१५]ति । तद्धत्वोरभेदहेतुत्वात्तयोरप्यभेदेनैव भवितव्यमिति तदपि पक्षीकृतमेवेति भावः । हेतुभेदेऽपि शालिकोद्रवादेर्न तत्कु(कृ)तो भेदोऽन्यादृशत्वमपि त्वेवमेवेत्याह-निमित्तमन्तरेणे[१६३.१६]ति । कल्पनायां भेदकल्पनायां विशेषा
भावान्निनिमित्तत्वेन विशेषाभावात् [१६३.१६] शाल्यन्तरेऽपि किं न कल्प्यत इति 25 शेषः प्रकरण लभ्यम्वा । यद्वा न हेत्वभेदोऽभेदस्य निबन्धनम् । नापि हेतुभेदः कित्वेव
मेवाभेदो भविष्यतीत्या[58a7'ह-निमित्तमि[१६३.१६]ति । कल्पनायामभेदकल्पनायाम् । विशेषाभावाच्छालिकोद्रवयोरपि भे(अभे)दः किं न कल्प्यत इति पूर्ववत् ।
स्यादेतत् प्रतिभासनियमनिबन्धनोयमभेदो नान्यनिबन्धनस्तत्किमेवमुच्यते इत्याह प्रतिभासे[१६३.१६]ति । प्रतिभासस्य भेदस्तादृशत्वम् । तस्य स(भ्रान्तिनिमि१. दुर्वेकानुरोधेन ' तद्रूपरसवीर्य ' इत्यादि पाठः स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org