________________
३६३
पृ. १३१. पं. २२.]
हेतुबिन्दुटीकालोकः। तावत्समयसापेक्षजनकस्यानुवृत्तितः ॥ स्वभावस्य तथाप्येष तावत्कालमसक्रियः ।
पुनरन्ते तथैवेति कुर्यादक्षणिकः कथम् ? ॥” इति । उपगतोऽन्त्यो [१२५.९] यस्य स तथोक्तः । प्रस'ज्येत् [१२६.२२] यस्य निपातस्यार्थकथनं हठादि[१२६.२२]ति ।
5 सुतराम[१२७.१५]तिशयेन।
सन्तानमप्याश्रित्य कथमुच्यत इत्याह-पूर्वोत्तरेति[१२८.८] । किं लक्षणं नाम वस्तु तस्तत्र सहकारित्वमित्याह-पूर्वक्षणेभ्यस्त्वि [१२८.१०]ति । तस्य [१२८.११] . विशेषस्य ।
तत्समानकाल कारणक्षण: [१३०.४]। प्रयातुर(?)समानकालकारणक्षणः । 10 एकत्वेनाधिमुक्तस्य [१३०.६] तदेवेदमिति निश्चितस्य । - उपनिपतन्तीति उपनिपातास्ते च क्षणाः [१३०.१३] तथा क्षणो यतोऽन्यों नास्ति कालः सोवच्छेदकत्वेनैषां विद्यत इति । 'अर्ष आदित्येनद्विधातव्यः । तेनैकक्षणिकस्थायीनि वस्तुरूपाणीत्यर्थः । एवमन्यत्राप्येवंविधे प्रयोगे ज्ञेयम् । स्वरसतः [१३०.१०] स्वानुरागान्नाशो(न् )मुखत्वादिति यावत् । प्रकरणात्कार्योत्पादं प्रत्यनु- 15 गुणत्वं [१३०.१५] प्रत्येयम् । क्षेषवती [१३०.१९] कालविलम्बवती ।
तदनासादनमेव कथमित्याह-क्षणानामि[१३ ०.२७]ति । अयं निरतिशयोऽयं च सातिशय इति विवेकस्याभावात् । कार्योत्पादानुगुणमा[१३०.२८]द्यमित्यर्थात् ।
यदुक्तमक्षणिके तत्सर्व क्षणिकेष्वपि ममं यत[१३१.१०] इति । तेषां {१३१.१२] क्षणिकानाम् । यद्वा क्षणानामि[१३१.१३]तीदमुभयत्रापि सम्बन्ध- 20 नीयम् । पूर्व स्वदेशस्थित्या ता(ते) एव परस्परतः समुत्पन्नविशेषाः सनिधीयन्ते [१३१.१५) प्रत्यासीदन्ति । दूरदेशवर्तिनां कथं हेतुफलभावप्रतिनियम इत्याशंकायां न्यायमुपदर्शयन्नाह येन यस्याभी[१३१.१६]ति येन दूरस्थितसहकारिकृतेन विशेषेण सविशेषा एव संनिर्णयन्त इतीष्यते । तस्य विशेषस्योत्पत्तावपि[१३१.२२]। १. प्रसह्य ।
२. पूर्वपूर्वक्षणे° S। ३. तत्समानकाल: s
४. प्रदातुर इत्यपि पठ्यते । ५. पाणिनीयसूत्रं तु 'भर्ष आदिभ्योऽच् (५-२-१२७ ) इति वर्तते । किंतु दुर्वेकेन भन्यदेव किञ्चिद् उदत भाति । तथा च अत्र ' अर्ष आदिभ्योऽदित्यनेनाद् विधातव्यः' इति पाठः सम्यक् सम्भाव्यते ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org