________________
३६२ पण्डितदुर्वेकमिश्रकृतो .
[पृ. १२४. पं. १०कथमिदमुच्यमानं शोभेतेति । आस्तां प्राग्भाव एव कारणत्वं को बाधः ? ननूत्तमेवाक्षणिकस्यापि. कारणत्वे साधयितुं शक्ये तदनिराकृतिरेव महती बाधेति चेति । हन्त किं हेतुरूपस्य लक्षणेनाक्षणिकस्य सत्त्वं तथागतैर्निराक्रियते येनेदमपि वक्तुमध्यवसितास्तर्कविदः कथं नामेति चेत्। उच्यते । प्राग्भाव एवासौ स्थिररूपाक्रमाक्रमाख्यस्य व्यापकस्य 5 निवृत्त्या निवर्तते । यथा च तस्य ताभ्यां व्याप्तिर्यथा च ततस्तयोनिवृत्तिस्तथाऽन्यत्र निर्णीतमिति ने हेतुलक्षणकालेऽप्रकृतत्वादुच्यते । अथ तदेव न संगच्छते । तर्हि तदेवोच्यताम् । न तु हेतुलक्षणेन तस्या निराकृतिरिति । अलमतार्किकवचनेनातिनिर्बन्धेनेति ।
न हि स सामी(ही)त्य]इत्ये[१२३.२१]केन प्रकारेण व्याख्यायापरेणापि प्रकारेण न्याख्यातुम् अथवे[१२४.१०]त्यादिनोपक्रमते। 'अस्या [१२४.१०]अपेक्षा'याः । 10. ननूक्तमेव प्रत्ययान्तरापेक्षखकार्यजननस्वभावो भावस्तत्कथं प्रत्ययान्तरसाहित्य
दशायाः पर्वं कुर्यादित्याह प्रत्ययान्तरे[१२४.१९ति । तदतत्कालयोः [१२४.२३] सहकारिसाहित्यासाहित्यकालयोः । केचित्पुनः · खहेतुभिरेवायं प्रत्ययान्तरसापेक्षकार्यजननखभावो जनित [१२४.११] ' इत्यत्रैव विपञ्च्यते ।
ध्ययेवंधर्मोऽयं खहेतुभिरेव जनितः स्यात्तदा न कदाचिज्जनयेत् । तथा हि 15 यावत् सहकारिप्रत्ययसन्निधिकालस्तावदकरणधर्मासौ भावोऽन्यथाऽस्य पूर्वमपि कर्तृत्वं
प्रसज्येत । प्रत्ययान्तरसन्निधिकाले च स एव कियत्कालाकरणस्वभावो यः प्रथमे क्षण आसीत् । ततो नैव कुर्यात् कि[51b] यत्कालाकरणधर्मत्वात्तस्य क्रियायात् (क्रियायांतु) स एव खभावो न भवेत् । यद्वा तावत्कालापेक्षजनकस्य स्वभावस्यानुवृत्तेस्तादात्म्यः(म्ये)
तावत्कालमक्रिय एव । पुनरन्ते तथैवेति कथमिवाक्षणिकः कदाचिदपि जनयेत् । तस्मान्न 20 प्रत्ययान्तरापेक्षजनकस्वभावो भावः स्वहेतुभिर्जन्यत इति । तथा चाह
“ तत्सहकारिसापेक्ष जनको यदि हेतुभिः । भावः स्याज्जनितो नासौ किंचिज्जनयेत्तदा ॥ तथाहि सन्निधीयन्ते यावत्ते सहकारिणः ।। तावन्नूनमकर्ताऽसौ स्वभावस्तस्य वस्तुनः ॥ एषितव्योऽन्यथा पूर्व तत्कर्तृत्वप्रसङ्गतः । तत्सन्निधानकाले च स्वभावोऽस्य (१) वर्तते ॥
.... ... तन्न कुर्याक्रियायाम्वा स्वभावोस्य नो भवेत् () ।
25.
मद्वा
-
-
१. अस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org