________________
३६०
पण्डितदुर्वेकमिभकृतो
[पृ. १२४. पं. १०वे नोपपद्यत इत्येव तस्य कार्य, तद्भावे तु भवत्यवश्यमिति को(को)पयोगोऽस्य । तस्मात्कथं तद्रूपभावेपि कार्यक्रिया प्रसंजनं ज्याय इति ।
अत्रोच्यते अक्षणिकत्वेनाप्रच्युतानुत्पन्नरूपान्तरे सर्वावस्थासमानेऽपि कारणे यदि कार्य नोपजायते तर्हि तत्स्वतन्त्रमापद्येत । तथा च न तत्तस्य कार्यं स्यात् । तदवादि 5 वार्तिकालंकारे प्रज्ञाकरगुप्तेन
. “सर्वावस्थासमानेऽपि कारणे यद्यकार्यता ।
स्वतन्त्रं कार्यमेव स्यान्न [ तत् ]कार्य तथा सति ॥” इति । . कारणपारतन्व्ये च तत्कारणं तत्कार्य हठादेव जनयेत् । तथाप्यभावे न तस्य कार्य
स्यात् । तस्माद[कारणात् ] कारणस्य विशेषः कार्यस्यावश्यंभाव एवावश्यञ्च वक्तव्यः । 10 ननु ' तद्भा(तदभा)वे न भवति कार्यमि'त्यकारणादस्य विशेषः । न हि तस्याकारण.
स्याभावे तत्कार्य न भवतीति; हन्त कुत एतदवगम्यते तद[50b] भावप्रयुक्तोऽस्याभाव इति । यदि हि तद्भा(तदभा)वस्याभावे तद्भावलक्षणे कार्याभावस्याभावः कार्यभावलक्षणः स्याचदा तदभावप्रयुक्तोऽस्याभावः सिद्धयेदितरथाऽकारणाभिमताभावप्रयुक्तोऽपि तदभावः
किं न कल्प्यते? 'तदभावेपि कार्याभावस्य भावान्न तदभावप्रयुक्तताऽस्येति चेत् , 15 समानमिदं कारणाभिमतेपि । तस्माद्यथा तदवस्थ एव कारणे स्वयमेव कार्य न
भवति स्वातन्त्र्यात् , तथा तदभावोऽपि स्वयमेव न भविष्यतीति स्वातन्त्र्यादेव । यश्च खयमेव न भवति नासौ नियम्यते तेन परतन्त्रत्वे तस्य कारणस्य भावेऽवश्यमेव भवेत् । तदाऽऽह अलङ्कारकारः ...... तद्भावेपि न भावश्चेदभावे भाविता कुतः ।।
__ तदभावप्रयुक्तोऽस्य सोऽभाव इति तत्कुतः ॥” इति । तस्मात्तद्भावे भावस्तदभावे चाभाव इति विशेषितः कार्यकारणभावोऽवश्यं भवतीति ज्ञापयति । तथा च कारणे सत्यवश्यंभावि कार्यमायातमिति कथं कदाचित्क्रियाविरामः ।
किश्च तथाविधो हि कार्याभावो निर्हेतुकत्वात्स्वयमेव भवतीति युक्तमपि। भावस्तु हेतुपरतन्त्रत्वात्स'मर्थ हेतौ न भवतीति न युक्तम् । तदुक्तम् 25. “ अभावी हि पदार्थानां स्वयमेव भवेदपि ।
भावस्तु परतन्त्रत्वात्कथं हेतोर्भवेन्न सः ॥” इति । १. भकारणाभिमताभाव!भावेऽपि इत्यर्थः। २. प्रमाणबा० अलं. पृ. ७४.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org