________________
पृ. १२४. पं. १०.] हेतुबिन्दुटीकालोकः। इत्यनेनैकस्मिन्नेवार्थे बहुवचनेन द्रष्टव्यम् । एवमसंबद्धवादिन्यपूज्य एवं पूजावचनमुपसंहारपरं द्रष्टव्यम् । दैन्योद्भावनमि[१२२.१]त्यत्सिंबोध्यमानस्य दैन्यप्रकाशनमिति । निकृष्टसम्बोधनेऽयं हन्तः [१२२.१] शब्द इति यावत् । ततोऽप्र[50a] सवधर्मकत्वात् । अपेतोऽपगतः संतांनः [१२२.२] प्रसूतिः परंपरा यस्य तथोक्तम् । इतिना [१२२.३] चिन्तारूपमुपदर्शितम् ।
शिरःकम्पे चास्य सत्यमिदमस्ती[१२२.१०]त्यस्य शब्दस्य प्रयोगमाकलय्य प्रयोक्तुरभिप्रायं वर्णयन्पृच्छती १२२.१३]त्याचष्टे । अत एव चेदमाह-किं त्वयास्तित्वेन पृच्छ्यत इति पार्श्वस्थं प्रश्नयन्नाह किं तदि[१२२.१३]ति । इति हेतोराहार्य इति प्रकरणात् । औदासीन्यापत्तिरित्यत्रेति शब्देन इदमास्तित्वेनाभिप्रेतस्य न्याय्यवचन[१२२.१७]स्याकारो दर्शितः । अत एव न्याय्यवचनस्यास्तित्वेन दी- 10 मानस्य रूपं दर्शयन् सत्यमिदमप्यस्ती[१२२.१६]ति पुनराह । यद्येवमस्य .. न्याय्यवचनस्य सद्भावादनवद्यमेवास्मन्मतमित्याशं क्याह किंत्वि[१२२.१७]ति । केवलमिदं [१२२.१७] वक्षमाणं प्रष्टव्योसि ।
प्रच्युतमजनक रूपमुत्पन्नं जनकं रूपं द्वन्द्वैकवद्भावमभिप्रेत्य प्रच्युतोत्पन्नमित्याह - अप्रच्युतो(ता)नुत्पन्नत्वेनैव च स्थिरैकस्वभाव[१२ ३.८]त्वं ज्ञेयम् । - 15
त देऽपि [१२३.१९] जनकाजनकभेदेपि । तस्य [१२३,२०] भावभेदस्य । अपरापेक्षस्वभावभेदलक्षणत्वादि[१२३.२ ०]ति परा'पेक्षो यः स्वभावभेदो न भवति स्वत एव यो भावभेदलक्षणत्वादिति । भवत इदं भावत्कम् [१२३.२१] । आधीयते [१२३.२६] अधिक्रियते नियुज्यते वा । स्वरूपेण कर्तृत्वे विवक्षितस्यापि ताद्रूप्य प्रसज्येतेत्यभिप्रायेणाह ए'षामपि पररूपेण कर्तृत्व [१२४,१] इति । 20 पररूपेण कर्तृत्वे इति पर एव कर्वा स्यात् । तस्य तु तथात्वं' हरीतकीं प्राप्य देवता . रेचयन्तीत्यनेन तुल्यं स्यादित्यभिप्रेत्याह-पररूपेणाप्यकारकत्वादि[१२४.३]ति । अस्योत्तरस्य [१२४.५] ' सहितस्तत्स्वभावो न केवल ' इत्यस्य । प्रकृतमुपसंहरन्नाहतस्मादि[१२४.१०]ति। कथञ्चित्के(१२४.१०]नापि प्रकारेण न कार्यक्रियाया विरामः। पुरस्तादपि तस्य स्वरूपस्य भावादिति भावः ।
25 'स्मादेतज्जनकमस्य रूपमवस्थितं जनकञ्च तदुच्यते यस्मिन् सत्येव कार्यमस्ति न तु यस्मिन्सति कार्य भवत्येव, सति भावस्याक(का)रणसाधारणत्वात् । कार्यमपि. तद्धा(तदभा) १. तेषामपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org