________________
३५८
पण्डितदुर्वकमित्रकृतो [पृ. १२७. ६. १२सम्प्रति प्रकारान्तरेणापि प्रत्यभिज्ञाया अप्रामाण्यं परमभ्युपगमयितु भूमिका रचयन्नाह-व्यवस्थितस्यैवे[१२०१२]ति । अयं चात्राभिप्रायः-भवतु यावद्वीजादावुच्छूनोच्छूनतरादिविशेषस्य दर्शनात् सामोत्पादादिकल्पना न पुनरिह तथा
अदर्शनादिति । व्यवस्थितस्यान्यत्वमनापन्नस्य । सामर्थ्य [१२०.१३] विज्ञानो5 त्पादादिसामर्थ्यम् ।
अप्रतिभासमानो विवेको [१२०.१४] यस्य पुंसः स तथा । यद्यपि विवेकोऽस्य प्रत्यक्षतो नावगम्यते तथाप्येतस्मात्प्रमाणात् तत्स्वभावस्य सामर्थ्यस्योत्पत्तिः कल्प्यत इति दर्शयन्नाह परः विज्ञानादी[१२०.१५]ति । अनु
त्पत्तिप्रसंगात् प्रागसत्सामर्थ्य चक्षुरादिसन्निधावुत्पद्यत इति निश्चयः । ऋमिणां 10 विज्ञानादिकार्याणां योगपद्योदयप्रसङ्गात् [१२०.१५] । 'तच्च क्रमवदिति निश्चयः ।
यद्येवमि[१२०.१७]ति सिद्धान्ती। अविकृतमे[१२०.१७]करूपम् । अपूर्वसामर्थ्यस्य यः प्रतिभास आकारम्तेन विविक्तो रहितो य उपलादिस्तदाहि । यत एवैवं तत एवाविकृतमिति च द्रष्टव्यम् । अनवकृप्तिख्यापनार्थो वा[१२०.१९]शब्दः ।
अभ्युपगम्यतामेवं का क्षतिरित्याह तथेति तद्वत्। 'सामर्थ्याम[१२०.२५]त्यागन्तुकं 15 सामर्थ्यमित्यवसातव्यम् । द्विविधं हि सामर्थ्य प्रातिस्विकमागन्तुकञ्च । प्रातिस्विकी च शक्तिर
वश्यैषितव्या । अन्यथा शिलाशकलमपि क्षित्यादिसान्निध्ये बीजवदंकुर कस्मान्न निव(व;तयतीति पर्यनुयोगे किमुत्तरं वाच्यमिति हि तेषां मतम् ।।
ननु सामर्थ्यमतिशयलक्षणं सहकार्याधेयं ततोऽन्यदेव तत्कथं सहकारिपत्यय[सान्निध्य]लक्षणस्येत्युच्यत इत्याह अत'एवे[१२१.३]ति । प्रत्यासत्तिलक्षणस्य सान्निध्यस्य 20 तेभ्यः सन्निहितेभ्योऽन्यस्यानुपपत्तेः । सान्निध्यशब्दपरित्यागेन सहकारिप्रत्ययलक्षणस्येति
ते एवेत्याद्यप्युक्तं द्रष्टव्यम् । अत एवाभ्युपगमादि[१२.३ति उपागताभ्युपगमादिति प्रत्येतव्यम् । एवमिच्छ ता[१२१.६] क्षणि कतैवेत्यभिसंबन्धनीयम् । __ यच्छब्दस्यैतद् व्याख्यानं यस्मादि[१२१.२१]ति । इदं शब्दस्य चैतदिति
एतद्दर्शनम् [१२१.२१]। अनुत्तरस्यैवोत्तरीकरणादुत्तरीकृतमि[१२१.२ ४]त्युक्तम् । 25 एवं नियुञ्जानमहो महासामर्थ्यमस्तु का तवाक्षमेत्याशंक्य यदि नामेत्यवतारयितुं न चात्रे
[१२१.२५]त्याद्याह । न चात्र मे काचिदक्षमा [१२१.२५] किंत्वितीपमस्माकं चिन्ता चित्तं दुनोती[१२२.३]ति सम्बन्धः । न चात्र मे [१२१.२५] इत्यनेन टीकाकारवचनेनैकवाक्यीकरणपक्षेत्य(प्योस्माकं इति “अस्मदो द्वयोम" (पा. १-२-५९) १. तत एव
S २ . इच्छतोs ३. भणिकतेवै. S.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org