________________
३५७
पृ. १२०. पं. ७.]
हेतुबिन्दुटीकालोकः। विषयप्रत्यभिज्ञाप्रामाण्यनिराकरणमिति । उक्तमेव सामर्थ्याद्दर्शित मेव । तर्हि किमर्थ पुनरुक्तमित्याह-विपश्वनाथ त्वि[११७.१२]ति तुः पूर्वस्मादस्य कथनस्य विशेष दर्शयति।
आध्यात्मिकेषु [११७.१५]आन्तरेषु । पश्चाद्वाह्येपि दर्शयितव्यत्वात् क्रमे तावच्शब्दमाह । शक्यपरिच्छेदं [११७.१५] विशिष्ट कार्यकारणतया परि- 5 च्छेत्तुं शक्यम् ।
'साक्षाव्यवधानेन विज्ञानकार्यकारिणः प्रत्ययादुधेतोः । तस्य जनने-व्यवधानादिप्रतिपत्ती व्यवधानादिस्वीकारे, कथं तादृशो न भवतीत्याह अन्याशादिति । अन्यादृशाद्धि भवन्नन्यादृशस्यापि हेतोर्हेतुव्यपदेशसंभवाज्जननहेतुरित्याह । कथं तद्धेतुरित्याह तदिति तत्सहकारिभिः परस्परोपसर्पणाद्याश्रयहेतुसह- 10 कारिभरिन्द्रयादिभिः । समर्थञ्च तद्विज्ञानजनने स्वस्वक्षणांतरं चेति तथा तस्यारम्भात् । अनेन परस्परोपसर्पणाद्याश्रयप्रत्ययविशेषेन्द्रियादिकलापस्य साक्षाद्विज्ञानहेतोहेतुत्वं दर्शितम् । एतच्चानन्तरमेव स्पष्टयिष्यते । इदं चाक्षेपवतीं सामग्रीमभिप्रेत्योक्तं द्रष्टव्यम् । कथमन्यथाभावस्या' संभव इति आह परस्परेति । विज्ञाननिर्माणसमर्थाश्च ते हतेवश्च ते च ते इन्द्रियादयश्च तेषामुपादानैः। समर्थ- 15 हत्विन्द्रियादेर्जननं तस्मात् । अनन्तरोक्तस्पष्टीकरणं चैतद् द्रष्टव्यम् ।
सुखसंवर्धितत्वादिति व्याचक्षाणो मूले सुखैधित इत्यस्यानभियोगनिमितस्यापि सामर्थ्यात्क्रीइन[११९.१२ राशील इत्यस्य हेतुभावेन विशेषणत्वं दर्शयति । ननु कृतं निष्पादितमुच्यतेऽत्र च किमाचार्येण निष्पादितमित्याशंकां निराकुर्वन्नाह कृतमि[११९.१४]ति । न पुनरे[११९.१५]वमाचक्षाणेन द्विरुक्ताभावो दर्शित इति बोद्धव्यम्। 20 अस्यार्थस्यासकृदुक्तत्वात् एकवारं प्रतिविहिते पुनः प्रतिविधापयितरि अवज्ञासंभवेनोपहासायोगाच कृतं कृतमिति निर्देशस्य न्या[49b] 'यप्राप्तत्वादतिप्रसिद्धत्वाचेति । ननु किं कुर्वन्तं कर्तुं प्रयुङ्क्ते पुनः पूर्वपक्षवादी येन पुनः पूर्वपक्षवादी कारयतीत्युच्यत इत्याह-पुनरित्यादि । निर्लोठितं [११९.१७] निरूपितं निणींतमिति यावत् ।
पूर्ववन्मीमांसकाभिप्रायेण सामर्थ्य सहकारिभ्यो जायत [११९.२५] 25 इत्याचष्टे । सामर्थ्यस्यो[१२०.६]त्पत्तिः तद्वतोऽनुत्पत्तिः [१२०.७]।
१. प्रतिरत्र त्रुटिता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org