________________
३५२
- पण्डितदुबैकमिश्रकृतो
[पृ. १०६ पं. ३०इति वचनास्कर्मभिर्जनिता [१० ६.३०] इत्याह । तेषामेव प्राणिनां साधारणैरसाधारणवौ कर्मभिः। तेभ्यः [१०६.३०] कर्मभ्य एव तदाधिपत्यादेवेति यावत् । अवि भागिनो [१०६.३०] विभागेन न वर्तन्ते ।
अथासत्येकस्मिन्नवयविनि एकोयं घट इत्यादि व्यपदेशः कथं स्यादित्या5 शंक्याह-ते चे१०६.३१]ति । ते भागाः कथंचिदेककार्यकारित्वादिना प्रकारेण । ननु चैको घट इत्यादि शब्दजन्मनि शब्दानुविद्धे ज्ञाने तावत्किञ्चिदेकत्वेन प्रत्यवभासते तदैव च स्वलक्षणं स्वलक्षणत्वेनाध्यवसायात्तत् कथमभे दिनोऽर्थस्यापलापः क्रियत इत्याह न चे[१०६.३२राति । स्वलक्षणालम्बनं ज्ञानं स्वलक्षणज्ञानं
[१०६.३२] तस्मिन् न । अयमभिप्रायो यदि शब्दगोचरोऽर्थः स्वलक्षणं स्यात् तदे10 न्द्रियप्रभवेपि प्रत्यये तथैव प्रतिभासेत । न चैतदस्ति सजातीयविजातीयव्यावृत्त
प्रतिभासात् । न चैकमेव रूपमुपायभेदेऽपि भिन्नाकारावभासि युक्तम् । तदुक्तम् ___ "एकस्यै[47b] व कुतों रूपं भिन्नाकारावभासि तत्” [प्रमाणवा. २.२३५]। एवं तर्हि शब्दप्रत्ययगोचर एव किञ्चिदेकं तावदास्ताम् । ततो न सर्वथैकस्याभावः सिध्य
तीत्याह अस्पष्टे[१०७.१ति । त एव [१०७.१] भागा एवं । विजातीयव्यावृत्त्या 15 केवलया प्रतीयमानास्पष्टरूपाः [१०७.११ । अयमर्थस्तत्रापि ज्ञाने त एव भागा
विवेचितभेदाः प्रतीयन्ते न तु तदतिरिक्तं किञ्चिदेकमपि । अध्यवसायानुरोधेन च त एवेत्युक्तं द्रष्टव्यम् । यतो भागातिरिक्तं निर्भागदृश्यमनुपलभ्यमानमसद्व्यवहारगोचरः तत[१०७.२]स्तस्मात् । 'तेषां भागानां पर्यायशब्दाभिलाप्यानाम् ।
पुनरपि निर्भागमङ्गीकृत्य सिंहावलोकितन्यायेन दूषणान्तरमाह । 20 निर्भागस्य चे[१०६.३]ति । भिन्नो देशो यस्य स चासावंशश्चेति
पदसंस्कारं कृत्वा पश्चादनेकशब्देन सह 'कर्मधारयः कार्यः । तद्योगिता [१०७.३] तद्व्यापिता । अयमाशयो यदि तत् सांशं स्यात् , तदेकेनांशेनैकं भिन्नदेशमंशं व्याप्यापरेणापरं व्याप्नुयात् । न तु निरंशं सत्तथा कर्तुमुत्सहत
इति । ननु प्रतीयते तावदेकस्यानेकभिन्नदेशांशयोगिता तत्र किं कथमेतदिति 25 विमृष्टेन । तथा चोक्तम
" तत्तथैवाभ्युपैत'व्यम् यद्यथैव प्रतीयत ।” .. इत्यभिप्रायवतः परस्य वचनमाशङ्कमान आह प्रतीतेश्चेदि[१०७.४]ति यद्यप्यत्रोक्तमेव दूषणं न निर्विकल्पे नापि विकल्पे ज्ञाने तदेकमनुभासत इत्यादि ।
१. एषां २. निर्विभागस्य । ३. तुलना लोकवा० अनु० १८६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org