________________
पृ. १०६. पं. २१.] हेतुबिन्दुटीकालोकः।
३५१ विशेष एव संभवति मिलितावस्थायामपि ताद्रूप्यादेव । एवमभेददोषोपि द्रष्टव्यः । तस्माद् गुणमात्रनिबन्धनं यत्कार्य तद्यथा सति तस्मिन्भवति । तथा भेदाभेदमात्रे संभविनो दोषा ये ते तद्भावे कथं न स्युरिति ।
भेदाभेदाभ्यामुत्पत्ति[47a] धर्मत्वममीषां ... दोषाणामभ्युपेत्य . . सर्वमिदमुक्तमधुना तु तादास्यादेव तेषामनिवार्यत्वमायातमिति . प्रतिपादयितुं . गुडनागरादौ परेण 5 दृष्टान्तीकृते जन्यदोषाणामन्यथैवानुपपत्तिमभ्युपगच्छन्नाह विरोधी[१०६.२ ४]ति । विरोधिनो नागरादेः । सन्निधिस्तस्माविरोधिशून्याद गुडादेर्जन्म यस्य दोषस्य स तज्जन्मा न भवेद[१० ६.२ ३]पि । तदात्मा [१०६.२ ४] भेदाभेदात्मा । तु दोषः, स. तु तस्मिन्नात्मभूते भेदे अभेदे चानिष्टोपि न निवर्तते [१०६.२४] । अतत्स्वभावत्वप्रसङ्गादिति भावः । इदम- 10 त्रार्थसतत्त्वं भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः । विभिन्ने च ते स्यातामित्यादिना च वस्तुतस्तदात्मक एव दोषो दर्शितः । अनेककार्यकारित्वमपि अभिन्नरूपात्मकमेव वस्तुतः । अन्य दपि दूषणं वस्तुतो भेदाभेदात्मकमेव । व्यावृत्तिकृतस्तु भेदो यदि. भवेद्भवतु न तावता प्रकृतक्षतिरिति । .. तन्मतेऽवस्थान्तरावयविनः सत्त्वमुपेत्यैतदुक्तमिदानी तु स एव . नास्तीति 15 दर्शयितुमाह भागा एव चे[१०६.२५]ति । भागा एव. भागत्वेना.भिमता एव । परमार्थतस्तु परमाणव एवेत्यर्थः । तेन तेन प्रकारेणास्ति'र्यगू
विस्थानलक्षणेन तत्तदर्थक्रयाकारित्वलक्षणेन च संनिविष्टा [१०६.२५] व्यवस्थिताः। तदान [१०६.२६] भागवान् । निर्विभागः स्वतो निरंशः । अनेन दृश्यानुपलंभो दर्शितः । तदभावाच्च केन सह तेषां भेदाभेदचिन्ता स्यादिति चाभिप्रेतम् । 20
नन्वसत्येकस्मिन्नवयविनि धारणाऽऽकर्षणे कथमुपपद्येयातामित्याह-अन्योऽन्ये[१०६.२७]ति । ते[१०६.२७] भागाः । एक सामग्यधीनत्वादन्योन्यकारणाधीना-. पेक्षाः सन्तस्तथावस्थितवपुषो येनैकस्याकर्षणे धारणे वाऽन्येषामपि ते भवत इति । न केवलं दृष्टहेतुबलातेषां तथास्थितिरपि त्वदृष्टवशादपीति दर्शयन्नाह-कर्मणां चे[१०६.२८]ति । लोकस्यासाधारणचेतनात्मकर्मणामपि सामर्थ्यात्तेऽविनिर्भागवर्तिनः [१०६.२८].25 परस्परं विभागेन न वर्तन्ते ।
ननु चाकारणस्य कर्मणः सामोपवर्णनमयुक्तमित्याशंक्याह सन्निवेशेने[१०६.२९]ति । हि[१०६.२१]र्यस्मादर्थे ।
"कर्मजं लोकवैचित्र्यम्"[अभिध० १.१] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org