________________
३५०
___ पण्डितदुईकमिभकृतो [पृ. १०६. पं. १६कफना[46b]'शकत्वादेव मधुर(न) इत्यभिप्रायः । अनेन मधुरत्वादित्ययं हेतुः साषा. रणानकान्तिको दर्शितः। तीक्ष्णं [१०६.१६] कटुकम्वा सर्वमिति नोति स्यादिति चानुवर्तनीयम् । पूर्ववन्निदर्शनं व्याख्येयम् । मागधिका [१०६.१६] पिप्पली
शीतवीर्याहित्ये(ते)ल्याशयः । अनेनापि कटुकत्वादित्यस्य साधरणावैकान्तिकत्वं दर्शयतोऽ5 यमभिप्रायः । गुडनागराल्यस्य द्रव्यान्तरस्यास्यान्यदेवेत्थं मधुर(न) इव माधुर्य कटुकत्वमपि
पिप्पल्या इवान्यदेव तेन मिलितावस्थायां न दोषद्वयसम्भव इति । __ यदि च प्रत्येकभाविनां दोषाणां मिलितावस्थायां गुडनागरादेरभावोपदर्शनेनैतत्प्रति. विध्यते, तदा प्रत्येकभाविनां दोषाणां समुदायावस्थायामपि भावदर्शनात् किमस्मदभिमतं
चानुष(नाभ्युप)पद्यत इति दर्शयितुं प्रत्येकमि[१०६.१७]त्यादिनोपक्रमते । यदि 10 वा समुदायावस्थायां तेषां दोषाणामसद्भावे साध्ये प्रत्येकभावित्वादित्यस्य हेतोः साधारणा
नैकान्तिकत्वं दर्शयितुमाह-प्रत्येकमि(१०६.१७]ति । यत् प्रत्येत्येकं यस्य कार्यस्य निदानं [१०६.१७] निमित्तं स्वतस्तद्यदि स्वहेतुबलान् मिश्रम[१०६.१७]न्यसहितमेवाधिकरणमुत्पद्यते तदा किं तत्कार्यकारि तन्न दृष्टम् ? [१०६.१८] क्षेपे किमः प्रयोगाद् दृष्टमेवेत्यर्थः । स्नेहो हि कफहेतुरूष्णत्वं च पित्तकदृष्टं सहितावस्थायामपि 15 ते तत्कार्यकारिणी दृष्टे यथा अम्माषङ्गते, अतएव यथा माष[१०६.१८] इत्युदा
हरति । माषो हि स्निग्धत्वाष्णवीर्यत्वाच्चोभयात्मक उभयमेव कार्य कफपित्तलक्षणं करोतीति । • ननु मधुररसादपि मधुरः(नः) श्लेष्मा कस्मान्न जायते कटुकाया अपि पिप्पल्याः
कुतो न पित्तं येनास्मदुक्तं भवता ब्यभिचार्यते । तथाप्यभावे वा गुडा20 नागराच्च तौ दोषौ मा भूतामिति परस्य मतमाशंक्य दृष्टस्योपपत्तिप्रकारं दर्शयितुमाह
शक्त्यपेक्षश्चे ि१०६.१९]ति । यस्माचेन कार्येणोत्पत्तव्यम् , तस्य स्वोपादानशक्तिमपेक्षत इति शक्त्यपेक्षम् [१०६.१९] । किं तत्कार्य माधुर्यादि मुणमात्रं निबन्धनं न भवतीति प्रश्नेऽभ्युपगम एवोत्तरं कुर्वन्नाह-गुणेति [१०६.१९] ।
आचारविशेषानवच्छिन्नः केवलो माधुर्यादिगुणो गुणमात्रं तदनिवन्धनम् [१०६.१९] 25 अकारणं यस्य तत्तथोक्तम् । शक्त्यपेक्षत्वेपि कार्यस्य तस्याः सर्वत्र भावात् तदवस्यो [दोष]
'इत्याह सर्वत्रेति [१०६.२०] । तासां [१०६.२०] शक्तीनां किञ्चिदेव कार्य कस्यचिदेव जन्यतया सम्बन्धी भवति । अयमों मधुरत्वाविशेषेपि किश्चिदेव स्वहेतुसमुद्भूतरूपविशेषं यत्तथाकार्यकारि न तत् सर्वम् । तदेतोस्तज्जननः स्वभावः कुतस्त्व इति चेत् , स्वहेतोस्तस्यापि तथेत्यपर्यनुयोज्य ए(०ज्यमे)वैतत् । एतदुक्तं भवति-एकान्तेन 30 विम(मि)न्नत्वादि दोषो हि भेदमात्रे प्रसज्यमानो न भेदस्य शक्तिविशेषमपेक्षते । न च मेदस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org