________________
पृ. १०६. पं. १५.] हेतुबिन्दुटीकालोकः।। भासां घियमादधीरन् । न चैतदस्ति, तस्मादयुक्तमुक्तमेतदिति । शोभनमुक्तं भवता केवलमेवं वदितुरभिप्रायो न सम्यग्व्यशायि । अयं खल्वस्याभिप्रायो येनोपाध्यवच्छिन्नेन केनचिद्रूपेण तत्स्त्रीत्वं तस्यां जायायां वर्तमान मेनां तथोपभोगाङ्गं नोपपादयति विनैव तावदात्मना जनन्यामपि तेन वर्तितन्यमन्यरूपाभावात् । सति चैवं तस्या अपि तथात्वमापयेत; एवमत्रापेक्षयाप्युच्यमानजायाया अपि तथात्वमनिवार्यम् । यद्येवं शाबलेय- 5 बाहुलेयादीनामप्येकगोत्वादियोगादेकत्वं किं नापाद्यत इति ? प्रियं प्रियेणाचरितमिति । उदाहरण दिङ्मात्रं तक्तमेतदुपहासापदेशेनेति सर्वमवदातम् ।
एवमुक्तया नित्या भेदाभेदावेकाधिकरणौ न युक्ताविति प्रतिपाद्याधुना भवेतां तौ तथा, तथाप्युक्तदोषान्न मुक्तिरिति प्रतिपादयन्नाह भेदाभेदोक्तदोषाश्चे[१०६.११]ति । द्रव्यपर्याययोर्भेदे ह्येकान्तेन विभिन्ने ते स्याताम् । न त्वेकं द्विरूपम, तथा' सुवर्णकुण्डलादि- 10 पर्याययोरपरस्परात्मतया कुण्डलादिसुवर्णविशेषाभ्यां तयोरप्रतिभासनप्रसङ्गादयो दोषाः । अभेदपक्षे चैकस्याने[क]कार्यकर्तृत्वमुक्तमव्याहतमापद्येत । द्रव्यपर्यायरूपत्वेनाभ्युपेतं द्वैरूप्यं हीयेतेत्यादयो दोषाः । सति चैवं विफलोऽयमेकस्य भेदाभ्युपगम इति चार्थादशितम् । तयो[१०६.११]र्भेदाभेदयोरिष्टौ [१०६.११] कथं वा न भवन्ति । प्रत्येकं भावान्न समुदाये भवन्तीत्याह-प्रत्येकमिति ते [१०६.१२] दोषाः। 15
ननु च दृष्टमिदं यत एकैकमाविनो दोषाः समुदायावस्थायां न भवन्तीत्यभिप्रायवान् परः प्राह गुडश्चेति[१०६.१३]। केवलो गुडः श्लेष्मणोहेतुर्नागरं शुण्ठी केवलं पित्तस्य कारणम् [१०६.१३] । मिलितयोस्त्वनयोस्तौ दोषौ कस्मान्न भवत्त इति प्रकरणाद् द्रष्टव्यमध्याहारो वा कर्तव्यः। अत्र समाधिमाह तन्मूलमि[१०६.१४]ति। परस्परोपसर्पणाश्रयात् प्रत्ययात्तदुपादानसहकारिणोऽन्यदेव [१०६.१९] तत्-कार्यकारिणः केव- 20 लाद् गुडात् । केवलाच नागराद्भिन्नमेव विशिष्टार्थक्रियाकारि द्रव्यान्तरमिदं गुडनागरा[१०६.१४]ख्यमुत्पन्नम् । न तु स एव गुडो नागरश्च द्वे इमे द्रव्ये । तन्मूलं[१०६.१४] तद्गुडनागरकारणम् । अनेनैतदाह-विशिष्टश्लेष्महरणाद्यर्थक्रियाकारिद्रव्यान्तरमिदमुदपादि तेन प्रत्येकभावी मम दोषो न भवति । भवतस्तु मिलितावपि भेदाभेदौ द्रव्यपर्यायलक्षणौ तावेदेति कथन्नो( कथमु ! )भयमा विनो दोषा न भवेयुरिति।
25 . अथास्तु द्रव्यान्तरमिदं तथापि मधुरत्वात् कटुकत्वाच्च कथं कफपित्तकृन्न भवतीति पार्श्वस्थस्य चोद्यम् प्रतिक्षिपन्नाह मधुरमि[१०६.१५]ति । सर्व मधुरं [१०६.१५] कफहेतुर्न संभाव्यते । स्यादि[१ ० ६.१५]ति संभावनपदमेतत् , शक्यार्थम्वा । केन पुनर्निदर्शनेन सर्व मधुरमेव(वं) संभावयितुमयुक्तमित्यत आह यथे[१०६.१५]ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org