________________
पृ. १०५. पं. २९.] हेतुबिन्दुटोकालोकः। ते द्रव्यपर्यायात्मके वस्तुनी [१०५.२२] । स्यादेतत्-स्यादयं दोषो यदि भेदः पश्चात् प्रकरणात् स्वहेत्वाचगे(त्वाग)तस्याभिन्नस्वभावस्य पश्चाद्भवन्स्वभावस्य तस्यैव लहेतुबलाया तस्याभिन्नस्य न भेदकस्तयोरभिन्नोय(य) खभावो न भवेत् । यावतास्त्यमिन्नोपि स्वभावस्ततस्तयोरभेदोपीत्याह स चेति [१०५.२२] । सोऽभिन्नः स्वभावः ।
तयोः [१०५.२३] द्रव्यपर्याययोः, केन कारणेन । कुतः पुनरसौ 5 तयोर्न स्यादित्याह-विभिन्नाभ्यामि[१०५.२३ति परस्परमिनाभ्यां द्रव्यपर्यायाभ्यामभिन्नस्याभिनस्वभावस्य कल्पितस्य तस्य । विभेदतो [१०५.२३] भेदाद् व्यतिरेकात् । भेदे हि कार्यकारणभावः संबन्धः । स चात्र नास्तात च बुद्धिस्थम् । तेषां [१०५.२३] द्रव्यपर्यायकल्पिताभिनस्वभावानाम् ।
तस्यापि [१०५.२५] तृतीयस्यापि स्वभावस्य तदभेदप्रसिद्धये [१०५.२५] 10 द्रव्यपर्यायाभिन्नस्वभावाभेदप्रसिद्धयर्थम् परश्चतुर्थः कल्पनीयो[१०५.२६]ऽन्यथाऽयः'शलाकाकल्पास्त्येव(स्त्रय एवा)ऽसंबद्धाः प्रसज्येरनिति भावः । एवं पञ्चमादावपि सैव वार्तेत्यादिना भिन्नस्वभावस्यासम्बन्धनिश्चयपरिपन्थिन्य[न]वस्था स्यात् ।
ननु किम[न]वस्थाभयाद् दृष्टानेकस्वभावापलापः कर्तव्यः इत्याह-न चेति । [१०५.२७] ।
15 स्यादेतत्स्यादयं दोषो यद्यभिन्नस्य स्वभावस्य द्रव्यपर्यायाभ्यां भेदोऽप्युपगम्येत । किन्त्वभेद एवेत्याह ऐकान्तिकस्त्वि[१०५.२९]ति। भिन्नयोर्द्रव्यपर्याययोरभिन्नास्वभावादभेद ऐकान्तिको यदि भवेदिति योज्यम् , भेद एव तयोर्विशीर्यंत [१०५.३०] विलीयेत । कुत इत्याह तदेके[१०५.३०]ति । तस्मादेकस्मात्स्वभावादव्यतिरेकस्तयोरित्यर्थात्।
- 20 अथवा विभिन्नाभ्यामित्याद्यन्यथा व्याख्येयम् । विभिन्नाभ्यां [१०५.२३] द्रव्यपर्यायाभ्यामभिन्नस्या[१.०५.२३]व्यतिरिक्तस्य [45b] 'विभेदस्तदात्मवद्धदात् । अयं चाभिमायो द्रव्यपर्या[य]योः कल्पिताभिन्नस्वभावयोस्तादात्म्योपगमे तस्य वा तयोरनुप्रवेश एषितव्यस्तयोर्वा तत्रेति । तत्र. यदि कल्पितस्य स्वभावस्य द्रव्यपर्याययोरनुप्रवेशस्तदा तावेव स्वरूपेण व्यवतिष्ठेयातां न स्वसाविति सोऽसन्कथं तत्सम्बन्धी स्यात् । मनु च 25 नासौ स्वभावस्तयोरुपलीयमानस्तदभेदानुभावी किं तर्हि तेषामभेदसिद्धयर्थमभिन्नस्वभावोऽन्योऽभ्युपगम्यते इत्यभिप्रायस्य परस्य वचनमाशंकमान आह तेषामि[१०५.२ ४]ति। अत्रापि दोषान्तरमुपेक्ष्यैवानवस्थां दर्शयन्नाह तथे[१०५.२६]ति । अथ द्रव्यपर्याययोस्तस्मिन्नभिने स्वभावेऽनुप्रवेशस्तबाह ऐकान्तिकास्त्व[१०५.२९Jत्यादि इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org