________________
पण्डितदुर्वेक मिश्रकृती
[पृ. १०५. . १०० अनेन च प्रकारद्वयेन तादाम्यहापनेन मिनरूपाणामेषां तेन सह सम्बन्धाभावाद्यदर्मत्वमेव च न स्यात् । ततश्च प्रकृतकृतिदर्शितमत्रैव वक्तव्यान्तरं समुचिन्वन्नाह भूत किमिति [१ ०५.१०] तत्र द्रव्ये भूतं जातं किं ? द्रव्यपर्याययोरैकात्म्येन द्रव्यस्थितौ पर्यायाणामपि नियता स्थितिरिति न किञ्चिद्भूतमित्यभिसन्धिः । यतः [ १०५.१० ] 5 कस्यचित्तदतिरिक्तस्याभावात् ।
Q就是
अभिप्रायमविदुषः परस्य वचनमाशंकमान आह भेदे [ १०५.११]ति । भिद्यन्त इति भेदाः पर्याया एव तद्रूपं भूतं यदाष्यते [१०५.११] | एतन्निराचिकीर्षन्नाह भिन्नमि [ १०५.१२]ति । हिरवधारणे भिन्नमित्यस्मात्परो द्रष्टव्यः ।
अभेदे [१०५.१३] तयोरैकात्म्ये । एतदि [ १०५.१४ ]ति द्रव्याविनाश (शे) 10 पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेण, स्थिते च तस्मिन् भेदरूपं भूतमिति चेति 1 असंबद्धस्वमेवास्य पूर्वसामध्योक्तं कण्ठोक्तं कुर्वन्नाह 'एवमेि १०५.१४ ]ति नष्टं तदन] [45] 'ष्टं चेति तथा ।
तदैतत्प्रसज्यत इति पार्श्वस्थस्याविदितप्रस्तावस्य प्रश्नमाशंक्याह - द्रव्ये [ १०५.१५]त्यादि । यस्मादुक्तया नीत्या लक्षणभेद एव सिद्धस्ततः [१०५.१६] तस्मात् ।
सम्प्रति कार्यभेदं प्रस्तुवन्नाह - कार्ये[ १०५.१७ ]ति । कार्यभेदात् तयोः स्वभावस्य भेदो यदि भवेत् [ १०५.१७] । तथा सति [ १०५.१७] स्वभावभेदे सति अवश्यं हि भेदमिच्छता स्वभावभेद एवैष्टव्योऽन्यथा भेदासिद्धेः ।
15
सति चैवं किमकिञ्चित्करः कार्यभेदो भेदसिद्ध्यर्थमुच्यत इति परं शिक्षयन्नाह स्वभावस्यैवें[१०५.१९]ति । ननु कार्यभेदोऽभिन्नस्य स्वभावस्य भेदक 20 इति किञ्चित्कर एवापि (एवोप) न्यासार्होऽपि च तत् किमेवमुच्यत इत्याशंक्याह न हि [१०५.२०] इति । हिर्यस्मात्कार्याणां भेदः पञ्चात्मकरणारस्वहेत्वागतस्याभिन्नस्वभावस्य पश्चाद्भवनस्वभावस्य तस्यैव स्वहेतुबलायातस्याभिन्नस्य न भेदकः [१०५.२०] हेतौ शतुर्विधानात्पश्चाद्भावादित्यर्थः । प्राग्भावी हि कारणं तद्भिनं स्वभावं कुर्यादपि, न तु पश्चाद्भावीत्यभिप्रायः ।
25
पश्चाद्भवन्नपि कस्मान्न भेदक इति ? आह स्वभावस्येति [ १०५.२१] । ननु कार्यभेदः स्वहतु समुत्थं स्वभावं मा नाम विकार्षीत्तदवस्थे विकारायोगात्, तमेव तु विनाशयिष्यतीत्याह नाशेति [१०५.२१] । यदि चायं कार्यभेदस्तयोः स्वभावस्य भेदकः स्यातदायं दोषः स्यादिति दर्शयन्नाह - एकान्तेने [१०५.२२]ति । १. एकमिति S
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org