________________
पृ. १०५. पं. ९.] हेतुबिन्दुटीकालोकः ।
३४५. [१०५.४] द्रव्यपर्यायरूपेणान्यथा वा। अभिन्नते[१०५.३]ति भेदाध्यवसायोऽवसेयः । कुतः पुनः सिद्धमेतद्वचनभेदात्मकः संख्याभेदः, स चाभेदक इत्याह-येषामि[१०५.४]ति । अत्रापि वाच्यवाचकयोरभेदविवक्षया इत्यादि प्रतिपादि[44b]'त एवेत्यादिशब्देनोक्तो द्रष्टव्यः।
अधुना क्षणभेदमधिकृत्याह अविनाश [१०५.५] इति । किं [१ ० ५.६] 5 कस्मात् । तदात्मका [१०५.६] नैव, विरुद्धधर्माध्यासादिति भावः । यदि वा सदात्मका इति हेतुभावेन विशेषणं वेन तदात्मकत्वात् किं कस्माद् द्रव्याविनाशे नाशिन [१०५.६] इत्यर्थः । अनेनैकस्य एतल्लक्षणद्वयायोगालक्षणभेदोऽसिद्ध उक्तः ।
उक्तदोप(पं) निराचिकीर्षोः परस्य वचनमा शङ्कमा]न माह नष्टा[१०५.७] इति । ते [१०५.७] पर्यायाः । चेदि[१०५.७]ति पराभ्युपगमं दर्शयति । पर्याय- 10 रूपेण[१०५.७] न धर्मिरूपेणेत्यर्थादवस्थितम् । एतन्निराकुर्वन्नाह-द्रव्येति । द्रव्यस्वभावतोऽन्यस्वभावता तेषां किमस्ति ? पृच्छतश्चायमभिप्रायो यपन्यस्वभावता तेषां भवेत्स्वभावभेदेन स्वभावाभेद एव न भवेदिति । अत एवायं वैदर्भपरस्य प्रश्नः। सिद्धान्तवाद्येवैतदोषदर्शिनोऽन्यस्वभावतानिषेधमाशंकमान आह न चेदिति[१०५.८] । अत्राप्याह नाश [१०५.८] इति । तथा [१०५.८] तेन प्रकारेण । पर्यायाः पर्यायरूपेण नष्टा 15 . न धर्मिरूपेणेत्येवमात्मना कथं नाशः [१०५.८] । नो चेदिति तु कचित्पाठः । तत्रापि नष्टाः पर्यायरूपेण द्रव्यस्वभावेन नो' चेत् [१०५.८] न यदि प्रकृताश्च पर्यायाः कर्तृकत्वेनाभिसंबध्यन्ते । एतदाशंक्य सिद्धान्त्येवाह किमन्यरूपता तेषामि[१०५.८]ति । द्रव्यस्वभावस्य श्रुतत्वात् , द्रव्यस्वभावादन्यस्वरूपता तेषां किमस्तीत्यर्थः । शषं समानं पूर्वेण । अनुगामिरूपं द्रव्यमुदयव्यययोगिनस्तु पर्याया 20 ऐकात्म्यञ्च द्रव्यपर्यायाणामहीकैः किं नेष्टं ?
तत्र व्ययिनः पर्यायानधिकृत्योक्तम् । इदानीमुदयिनोऽधिकृत्याह-द्रव्यात्मनी[१०५.९]ति । पर्याया इत्यनुवर्तते । द्रव्यस्यात्रैव श्रुतत्वात् तत्[१०५.९] शब्देन तस्य परामर्शः । तदयं वाक्यार्थो विरुद्धधर्माध्यास(से) भेदनिबन्धनेपि . केन कारणेन ते [१०५.१०] पर्यायाः द्रव्यात्मका इति । विरुद्धधर्मा ध्यास एव कुत 25 इत्याह-द्रव्यात्मनि स्थिते पश्चाद्भवन्त [१०५.९] इति । हेतौ शतुर्विधानाच्च पश्चाद्भावादित्यर्थः । तन्निष्पत्तावनिष्पतिरेव विरुद्धधर्माध्यास इति भावः ।
-
-
१. विभिन्नता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org