________________
पृ. १०४. ५. १८. ] हेतुविन्दुटीमालोकः। संमूञ्छितत्वाद[१ ० ४.६]भूयोन्योन्यावयवाप्रविष्टत्वात् । शबलरूपत्वे चायं हेतुः । दृष्टान्तमेव विघटयन्नाह स ही[१०४.८]त्यादि। स हिरण्यकशिपुवधार्थनिर्मि'तनरसिंहात्मकः । अवयविनः प्रमाणबाधितत्वादित्यभिप्रेत्य परमाणुसंहा(घा)तरूप [१०४.८] इत्युक्तम् । प्रत्येकं नरसिंहरूपा न भवन्ति [१ ० ४.९] । सर्वत्र नरसिंहद्रव्य(बुद्धय)भावादिति भावः । अनेनैव संमच्छितत्वाभावेन शबलरूपत्वासिद्धेः साधनशून्यो 5 दृष्टान्त इति दर्शितम् । तथा चाव्यवस्थितपरमाणुप्रयाभिप्रायेण भागशब्दप्रवृत्तिर्न तु परप्रसिद्धा तस्यावयवाभिप्रायेण अवयव्यारम्भस्यानभ्युपगमात् । संप्रति भवतु नरसिंहभागाभ्यां नरसिंहावयविनो निर्माण तथापि तस्य शबलरूपत्वासिद्धेः साधनशून्य एव दृष्टान्त इति दर्शनाद्दर्शयितुमाह जात्यन्तरं चे[१०४.१०]ति । तासु तासु ह्यवस्थासु स एवायं नर इत्युनुवृत्तिप्रत्ययहेतोर्नरत्वजातरूवंतासामान्यशब्दाभिलाप्यायास्तासु चावस्थासु सिंहः 10 सिंह इत्यनुगामिप्रत्ययहेतोः सिंहत्वजातेस्तथाभूताया अन्या तासु तास्ववस्थासु स एवायं नरसिंह इत्यनुवृत्तप्रत्ययहेतुभूता तथाभूतैव जातिर्जात्यन्तरमवसेयम् । 'स [१०४.१०] इति सामानाधिकरण्येन निर्देशश्च तस्य तद्वतश्चाभेदविवक्षया समुदायविवक्षया वा द्रष्टव्यः। दिगम्बरमतस्य च प्रकृतत्वात् एवं व्याख्यायते तेन हि तिर्यक्सामान्यं नेष्टमुपरिष्टाच एतद्भट्टाटेनापि स्फुटयिष्यते। नापि तिर्यक्सामान्यमत्र कल्पयितुं युक्तम् , नरसिंहस्य तथा- 15 भूतस्यैकत्वात् अनेकवृतित्वाञ्च सामान्यस्येति । शबलरूपत्वाभावमेव विचित्रं ही[१०४.११]त्यादिना प्रतिपादयति । अयमस्याशयो यदि संमूर्च्छितत्वं त्यक्त्वा यथा कथञ्चिदनेकरूपत्वेनापि शबलरूपतोच्यते तथाप्येकत्वाभावस्य न्यायप्राप्तत्वान्नैकस्य (शवलरूपतोच्यते। तथाप्येकत्वाभावस्य न्यायप्राप्तत्वान्नैकस्य') शबलरूपत्वमिति[44a] 'प्रकृतमेवहीयेतेति । अवश्यं हि शाबल्यमिच्छता वैचित्र्यं नानारूपत्वमेष्टव्यमित्यभिप्रायेणाह ( वैचित्र्यं 20 नानारूपत्वमेष्टव्यमित्यभिप्रायेणाह') विचित्रं ही[१०४.११]ति । यद्येकं शबलरूपं चो(नो)पपद्यते कथं तर्हि लोकः शवलमिदमिति मन्यत इत्याशंक्याह केवलमि[१०४.१३]त्यादि । एकात्यवमर्षायेकं कार्य तस्य दर्शनात् [१०४.१३] । एकल्यवहारे चायं हेतुः।
इह खलु वास्तवधर्मापेक्षो वास्तवो धर्मी। धर्मश्च पूर्व कृतकविचारेण पारमार्थिको 25 निरस्तस्तदपेक्षो धर्म्यपि वास्तवो व्युदस्त इत्यभिप्रायेण धर्मधर्मीणोनिषेधादि[१०४.१८]त्युक्तम् ।
१. कोष्ठकान्तर्गतः पाठः पुनरावर्तितः।
50 Jain Education International
For Private & Personal Use Only
www.jainelibrary.org