________________
पृ. १०२. ५. १७. ]
हेतुबिन्दुटीकालोकः। [१०२.६]त्येकस्यानेककार्यकारित्वासंभवात् । गतार्थमप्येतत्कण्ठोक्तं कुर्वन्नाह । अनेकस्ये[१ ० २.७]त्यादि । यथायोगमेकानेकशब्दौ सम्बन्धव्यौ । अनभ्युपगमादेवैकस्यानेकक्रियाविरहादुक्तया नीत्याऽनेकस्याप्येकक्रियानिरहादिति चार्थो द्रष्टव्यः ।
ननु च एकस्यानेककारित्वप्रकारादनेकस्यैवैककारित्वप्रकारात्किलान्यः प्रकारो नास्तीत्यभिमतम् । अस्ति खल्बनेकमेवानेकं करोतीति प्रक्रान्तं तत्कथमेतत्संगस्यत इति चेन्न । 5 अनेकैकसामग्रया(य)न्तःपतितेनानेकक्रियोपगभे सर्वस्यैवोपादानसहकारिभावेन सजातीयविजातीयविशिष्टक्षणारम्भस्य न्यायप्राप्तस्योपगमादेकस्यानेकक्रियोपगमप्राप्तेरित्यभिप्राया
सर्वमवदातम् । भहेतुकत्वे च तन्नियमायोगादिति भावः । द्रव्यपर्याययोस्तावद्भिन्नं कार्यमिष्टम् । तौ चैकस्वभावावेक वस्त्विति कथमेकस्यानेककार्यकारित्वमनुन्मत्तेन प्रतिक्षिप्यत इत्यभिप्रायवानाह द्रव्ये[१०२.१३]त्यादि । एकस्वभावत्वेऽपि नैक- 10 वस्तुतेत्याह-स्व मावस्यैवे[१०२.१५]ति । अन्यथा यदि 'वस्तुनोऽन्यः स्वभावः स्यात् तस्य [१ ०२.१५] वस्तुनः एवं स्वभावत्याप्यवस्तुताप्रसङ्गादित्यपि द्रष्टव्यम् येनाभिप्रायेण कथं नोन्मत्तः [१०२.१४] इत्यवादीत् तमिदानीं स्फुटयन्नाह एकस्वभावत्वे चे[१०२.१६]ति । यदा हि तलपिण्डादिद्रव्यं द्विपिण्डकद्रव्यनिर्माणसमय एव काकतालीयन्मायेन पवनावधूतत्लांशुप्रभृतिना स्वल्पपरिभाणेन द्रव्यान्तरेण 15 संयुज्यते द्रव्यारम्भकसयोगाप्रतिद्वंद्वी(द्वि)विभा[ग]ज(भागज)नकक्रियाहेतुं च सहकारिकारणं प्रतिलभते । तदतव्यं द्विपिण्डकं तलद्रव्यम् । गुणं च तथाभूतसंयोगाख्यम् । कर्म च तथाभूतां क्रियामेकदैव करोतीति द्रव्यगुणकर्मणां समवायिकारणं वैशेषिकैरवश्यैषितम्यमित्यभिप्रायोऽस्यैवं वदितुरवसातव्यः । [43aj'अन्यथा कार्यद्रव्योदयसमकालं कार्ये [न] शुक्लादिरूपमुत्पद्यते । किन्तत्पन्ने कार्ये पश्चात्कारणादुत्पद्यते अत एवैकस्मिन्क्षणे द्रव्यम- 20 रूपमस्पर्शमरसमगन्धमुपगम्यते योगैः । तस्य तु गुणस्योत्पद्यमानस्य समवायिकारणं तदेवानन्तरोत्पन्नं द्रव्यं न तु तत्कारणं द्रव्यम् । एवं तावदिदमस्माभिर्यथा कथञ्चिदुपपादितम् , कर्मणश्चैकस्येति तु संयोगसंस्कारापेक्षयोपपादयितुं शक्यते न पुनः संयोगविभागापेक्षया। न हि कुतश्चिदपि कर्मणो युगपत्संयोगविभागावुत्सद्येते किन्तु प्रथमं विभागस्ततः प्राच्यसंयोगविनाशस्तदनन्तरमुत्तरसयोग इति पदार्थविदः प्रजानते । न च युक्त्याया(पा)थै- 25 तद्वक्तव्यम् । वैशेषिकप्रक्रियायां' स्थित्वैवैतदभिधानस्य प्रकान्तत्वात् । अन्यथा किमस्ति कर्म किमस्ति संयोगादिर्येनैवमुच्येत । अतश्चैवं यत्कृतान्तकोपेने[१०२.१७]त्याह। अभिन्नकालं च कार्य विचारयितुं प्रकृतं न तु भिन्नकालमिति किं बहुना । एतच्च वैशेषिकशैगमनुपालयन्तो यदि केचन निपुणा मनीषिणो यथाश्रुति समर्थयन्ति कामं समर्थयन्तु न नो हानिः काचिदपि तु महानेव लाभ इति ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org