________________
..
पृ. १०१ पं. ७. ] हेतुबिन्दुटीकालोकः। गुणविशेषः । परप्रसिद्धथा चेदमुच्यते तच्च दीर्घत्वाख्यमुत्पाद्यमत्र विवक्षितम् । तत्र विभक्तं विभागेन' ब्यवस्थापितम् परिमाणं येषां पटादीनां तेषु विस्तारितेषु दीर्घाकृतेष्विति यावत् । विभक्तायामादिकपटादयः किञ्चिदावृण्वते किञ्चिच्च धारयन्ति किञ्चिदुपबध्नन्तीति । प्रागविद्यमानं कस्यचिद(द्)भावे भवदुत्पद्यमानं कार्यम् [१४०.१८] । हेतौ च शतुर्विधानात् पूर्वमभावा(भवोत्कस्यचिद्भावे भावा- 5 (भव)दित्यर्थः । भवेत्कार्यमिति तु पापीयान्पाठः । ..
यदि परस्परोपादानाहितरूपविशेषस्तत्सामअयन्तर्गतः सर्व एव क्षणः प्रत्येकं समर्थ उत्पद्यते । यतो विज्ञानादिप्रसूतिस्तेन तावदवश्यं ज्ञानजननस्वभावेनैव भाव्यम्, अविज्ञानजननस्वभावेनैव वा, न तु परस्परविरुद्धतदतजननस्वभावेन भेदप्रसङ्गादित्यभिप्रायवान्परश्वोदयन्नाह नन्वि[१००,२ ४]त्यादि । कथं तदन्यकार्य[42a] संभव [१००.२६] 10 इति ब्रुवतश्चायमभिप्रायः
" तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥"
- ( प्रमाणवा० २.२५१ ) इति । अनेककार्यकियास्वभावत्वादि[१ ० १.३]ज्ञानात्मकानेककार्यकारिरूपत्वात् । 15 • तेषां [१ ० १.४] सजातीयेतरक्षणानाम् । तेषां चक्षुरादीनां सत्ता तदा[न]न्तर्येण दर्शनं [१ ० १.५] तस्मात् । ननु तत्सन्निधौ विज्ञानलक्षणकार्यदर्शनात् विज्ञानस्यैव जनक इत्यवधारणात् तदवस्थे दोघे कस्मादिदमुच्यत इत्याह तत्रे[१०१.५]ति । अनैनैतदाह धर्ममात्रस्य संदेहादयोगव्यवच्छेद एवात्र न्यायप्राप्तो नान्ययोगव्यवच्छेद इति । ___ ननु च येन रूपेण विज्ञान विज्ञानं जनयति यदि तेनैकरूपेणैव रूपं जनयति तदा । तेनावश्यं तद्विज्ञानवबोधात्मना भान्यम् । अथ तदन्येन रूपेण जनयति तर्हि विरुद्धरूपद्वयाऽनुषङ्ग इत्याशङ्कयाह न चात [१०१.७] इति । अतो विज्ञानाविज्ञानजननस्वभावत्वात् । कस्मान्न स्यादित्याह-एकस्यैवे[१ ० १.७]ति । आत्मातिशयस्य [१०१.७] खहेतुप्रत्ययसामर्थ्यायातविज्ञानाविज्ञानोपजननयोग्यस्वभावविशेषस्य । अनेन- 25 तदर्शयति एकेनैव रूपेण ततज्जनयति 'केवलं तदेकं रूपमीदग्विज्ञानाविज्ञानजननमिति । एतदुक्तं भवति तत्सामग्रयन्तर्गतानां सर्वेषामेव क्षणानां स्वहेतुभिरिदं रूपमुपनीतं यदुत युष्मत्प्राग्भावेऽनेकेनैव बोधाबोधात्मकेन कार्येण जनितव्यमिति । एवं तर्हि विज्ञानाभिन्न
___ 20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org