________________
पण्डितदुईकमि कृतो . . ९९. पं. १२साधारणानैकान्तिकत्वं दर्शितम् । धर्मधर्मिसमुदायात्मकस्य कात्य॑स्या प्रतीतिः [९९.१२] प्रसज्येत । तत्प्रतीतौ वावस्थात्रवस्थाविषयपूज्यताप्रत्ययगोचरत्वस्य गौरवस्याप्रतीतिः प्रसज्येत । अत्रैव वक्तन्या[41b]न्तरमुश्चिन्वन्नाह व्री हय [९९.१२] इति
चेत्यत्र बहुवचनं “जात्याख्यायामकस्मिन्बहुवचनमन्यतरस्याम्''[पा.१.२.५८] इत्यनेन। 5 न च पर्यायरूपेण भिद्यन्त [९९.१६] इति ब्रुवता च यदि संख्याभेदोऽनेकत्वस्य
साधकः स्यात् तदा तदभेदोप्येकत्वस्य साधकः स्यात् । अन्यथा तस्यायोगात् । न चैवं तस्मात्संख्याभेदो न समर्थोऽनेकत्वं साधयितुमिति दर्शितं द्रष्टव्यम् ।
ततः [९९.१९] संज्ञाभेदात् । अनेन संज्ञाभेदादित्यस्य संदिग्धविपक्षन्यावृत्त्याsनैकान्तिकत्वं दर्शितम् । संप्रति साधारणानेकान्तिकत्वमपि दर्शयन्नाह एकस्मिन्नपि 10 चेति[९९.१९] अत्र गजनिमीलिकया पूर्वदोषो द्रष्टव्यः । समस्तस्य[९९.२१] .
शक्तिशक्तिमदात्मकस्य धर्मधर्मिसमुदायस्य । तयो९ि९.२३]र्द्धर्मधर्मिणोस्तद्वाचिनां [९९.२ ४] धर्मवाचिनाम् । मात्रा [९९.२६] लेशः ।
सर्वदैकरूपेणावस्थानं कूटस्थनित्यता तया [९९.२८] तत्तदवस्थारूपेण परिणमतोऽवस्थानं परिणामनित्यता: तदुपगमात् [१००.१] सा च [१००.१] 15 परिणामनित्यता । अस्य [१००.२] परिणामनित्यस्य सुवर्णादेद्रव्यस्य । तद्रूपेण
[१००.२] पर्यायरूपेण च्छेदो विनाशः । पर्यायाणामिवेति वैधHदृष्टान्तः । इयं परिणामनित्यता। 'कूटस्थनित्यता द्रव्ये पर्यायातिरिक्ते न संभवति[१००.४] । कुत इत्याह पर्याये १००.५]ति ।
विभक्तपरिणामेष्वि[१००.१२]ति पाठे विभक्तः परिणामो येषामिति विग्रहः। 20 विभक्तो विशिष्टकार्यकारित्वेन नियुक्त इति. चार्थ इति पूर्व निबन्धकृतो व्याचख्युः । इदानीमपि केचित्पण्डितमन्या अनेनैव पाठेन कथमपि व्याचक्षते । तदेतत्पापीयः विभक्ति [क्त]शब्दस्यान्यार्थत्वात्, न ह्ययं विभक्तशब्दो विशिष्टकार्यकारित्वेन नियुक्तं वक्ति । अपि तु विभागेन व्यवस्थापितम् । किञ्च किमस्य शब्ददारियं येन
विशिष्ट कार्यकारिपरिणामेष्विति वक्तव्यं विहाय इदमीदृशमवाचकमाचक्षीत । सर्व 25 एव च परिणामस्तदन्यकार्यापेक्षया विशिष्टकार्यकारीति . कोऽन्यस्मादस्य पटादिपरिणामस्य विशेषः, कश्चास्य नियोक्तेति किमस्थानपराक्रमेण । तस्मात्कचित्पुस्तके प्रमाद. पाठ एषः । विभक्तपरिमाणेविति तु पाठो युक्तरूपः । तत्र परिमाणं मानव्यवहारकारणं
१ अत्र ' कूटस्थनित्यतावत् ' इति पाठः टिबेटनानुसारी सम्यग्भाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org