________________
३३७
१. ९९. पं. ७.] हेतुविन्दुटीकालोकः । एवं रूपादिक्षणजन्मि(न्म)न्यपि प्रत्येयम् । अत एवैषामान्तरसामग्रीभेदः कृतः परस्परतो भेद इत्युक्तं पुरस्तादिति सर्वमवदातम् । कस्मात्पुनरिष्टैकसामग्रयपेक्षयैवैतदुच्यते, न च सामग्रीमात्रापेक्षयापीत्याह परमार्थतस्त्वि[९८.६]ति । तत्सामग्रयन्तर्गताना मि[९८.७]ति सा च सा चक्षुरादिसहकारिकारणात्मिका सामग्री चेति तथा यत्रोपादानभावेनान्तर्गतानामन्तभूतानां यत्र सामग्रयां सहकारित्वेन तेषां व्यापारस्तत्र । तत्सामग्रयन्तरं तदवयवत्वेन । कार्यान्तरस्ये[९८८]ति सोपादेयक्षणापेक्षया तद्विज्ञानं चक्षुषः कार्यान्तरम् एवमन्यस्याप्यन्यत् तस्य कार्यान्तरस्यापि प्रारम्भादित्यनुवर्तते अनेक. कार्यकर्तृत्वमिति र(च) शेषः कार्यः अन्यथा कस्मिन्साध्ये पश्चमीयं हेतुभावमभिदध्यात् । अस्यैवार्थस्य दृढीकरणार्थ दृष्टान्तयन्नाह यथे[९८.९]ति । तदा [९८.१०] तद्वदनेकप्रत्ययजनितमपी[९८.९त्येकमित्यस्यानुवृत्तेस्तथानेकप्रत्ययजनितमेकमपि नास्तीत्यर्थः । 10 इति [२८.९] हेतौ। अपि [९८.१०] न्यायतः सम्भावनामाह । 'यदि वा परमार्थतः कारणानेकत्वात्कार्यानेकत्वोपगमेऽपि न काचित्क्षतिरि[९८.९]ति सम्बन्धः कार्यः । कस्मान्न क्षतिरित्याह-तत्सामग्रयन्तर्गतानामि[२८.७]ति । यथेत्यादि च पूर्ववद् ब्याख्येयम् । इतिस्त्वनन्तरोक्तान्योपादानकारणानि सहकारिकारणानि प्रत्यवमृषति, ततोयमर्थ उक्तलक्षणकारणानेकत्वादिति । संप्रति 15 प्रकृतमुपसंहरन्नाह तत [९८.१०] इति । सामान्येन [९८.१ १] कार्यमात्राश्रयणेन । अथ सिद्धसाधनत्वं हेतोः को दोष इति चेत् । तदेतद्धर्मोत्तरप्रदीपेऽस्माभिर्विवेचितं विस्तरतश्च स्वयध्यविचार इत्यास्तां तावदिह ।
द्रव्य[९८.१६]शब्देन द्रवति पर्यायान्गच्छतीति व्युत्पत्त्या धर्मी परिणामिनित्यो विवक्षितः पर्यायशब्देन च परि समन्तादेत्येति द्रव्यमिति व्युत्पत्त्या धर्माः । आदि- 20
[९८.१८]शब्दात् स्पर्शादिसंग्रहः । घटो द्रव्यं रूपादयः [९८.१९] पर्याया इति ' द्रव्यपर्याययोरेतदुदाहरणम् इतिः संख्याभेद[९८.१९]स्याकारं दर्शयति द्वितीयस्तु संज्ञाभेदस्य । इति ९८.२२]ना लक्षणभेदस्याकारो दर्शितः । वस्तुराग [९८.२३]
इत्युपलक्षणमेतत् । इति'ना [९८.२३] कार्यभेदस्य स्वरूपमाह इतिर[९८.२ ४]. नन्तरोक्तभेदाभेदं प्रत्यवमृषति । चक्षुरादीनामभिन्नो य आत्मा एककार्यजनकः 25 सामान्यभूतस्त्रज्जन्यता तस्य[९८.२६] । एतदेव बयमित्यादिनोपसंहरति परः ।
सामान्येन पररूपाणां आत्माभेदस्य बो(स्यावा)धकत्वं प्रतिज्ञाय विशेषेणेदानीं दर्श. यितुमाह-संख्याभेदस्तावदि[९९.७]ति । बहुत्वेन व्यवहारो बहुवचनान्तस्य प्रयोगः । बहुवचनं च 'युष्मदि गुरावेकेषाम् ' इत्यनेन । अनेन संख्याभेदादित्यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org