________________
पृ. ९६. पं. २७ ]
हेतुबिन्दुटीकालोकः।। जनकत्वं प्रतिपाद्य सहकारणस्याप्युभयत्र सहकारिभावेनैव व्याप्रियमाणस्य कुलालादेरुपादानान्तरप्राप्तौ तदन्यसहितकार्याद्विलक्षणकार्यजनकत्वमतिदिशन्नाह-एवमि[९६.८)ति तदन्योपादानसहितं [९६.८] मृत्पिण्डलक्षणादुपादानाद्यदन्यदुपादानं तेन सहितम् । मुत्पिण्डसहितं [९६.८] तछिलक्षणमेव [९६.९] । तस्मात्तदन्योपादानसहितकार्याद्विसदृशमेव घटादिकं कार्य जनयति [९६.१०] । इति[९६.१०]र्यथा 5 मृत्पिण्डादीत्यादेराचार्यायवाक्यस्य यः समुदायार्थस्तस्याकारं दर्शयति । तत्रे[९६.११]त्यादिनेदानीमवयवार्थ व्याचष्टे । बुध्न[९६.१५]शब्देन मृषय(मृण्मय)पिधानविशेष उच्यते । तस्य पृथु९ि६.१५]शब्देन विशेषणसमासं कृत्वा तस्योदरा ९६.१५]दीति तत्पुरुषं विधाय तदिव तस्येव वाऽऽकारो [९६.१५] यस्येति बहुव्रीहिः कार्यः। आदिशब्दाचदवयवान्तरविशेषस्य भिन्नजातीयस्य कम्बुग्रीवादेर्वा संग्रहः । सूत्रात्त[९६.१ ७]- 10 स्यैव घटस्य [९६.१८] चकादविभक्तः स्वभावो भवतीति [९६.२१] . सम्बन्धः । मृत्संस्थानविशेषात्मतयैव तैव) घटस्य कुतस्त्येत्याह मृत्पिण्डे[९६.१७]ति। तज्जननस्वभावत्वात् [९६.१९] मृत्संस्थानात्मताजननस्वभावत्वात्कारणात् । घटस्य तद्रूपयोगात् [९६.१९] मृत्संस्थानरूपयोगात् । अन्यदेव सूत्रसाहित्येपि तयोः कथं तज्जननस्वभाव[त्व]मित्याह तनिरपेक्षे[९६.२ ०]ति । - तच्छब्देन 15 सूत्रं परामृष्यते, 'भिन्नस्वभावत्वाद्विलक्षणस्वभावत्वात् तन्निरपेक्षावस्थातो भिन्नस्वभावतैव तयोः कथमित्यपेक्षायां सूत्रकारणोपहितविशेषयोरि[९६.२ ०]ति हेतुभावेन विशेषणपदमिदं योज्यम् । निर्दिष्ट कारणाभिप्रायेण कारणत्रय[९६.२१]ग्रहणं न तु घटस्म त्रीण्येव कारणानि । तदुपयोगैर्मिनसामग्रीव्यापारैः कार्या पेक्षस्व(ये स्व)भावविशेषाः कार्याणां विशिष्टाः स्वभावास्तेषामसंकरोऽ[९६:२४]- 20 साकर्यम् । तत्र यदि ते कुलालादयः प्रत्येकं जनकाः स्युस्तदाऽनुकान्तकारणत्रयजन्य [९६.२१] इत्युच्येत । तथापि कथं सर्वतः समुत्पद्यमानस्याखण्डात्मनः कार्यस्यायं विशेषोऽस्मादयश्चास्मादिति व्यवस्थाप्यत इत्याशंक्याह तस्य चैकी[९६.२५]त्यादि। इतोऽस्तु कार्यस्य तत्सामग्रीभूतसकल जन्यत्वं तद्गतस्य तु तत्तद्विशेषस्य कथं तज्जन्यत्वव्यवस्थेत्याह तदेकैकस[जातीति [९६.२७] मृत्पिण्डाद्यपेक्षया 25 मृत्पिण्डादेरपरस्य तज्जातीयत्वं प्रत्येयम् । [40b] अनेनैतदर्शयति-नैकस्यामेव सामग्रयां तस्मिन्नेवाखण्डात्मनि कार्ये तत्तद्विशेषस्य ततज्जन्यत्वमवधार्यते . अपि तु तत्तदुपचये तत्तदुपचयत्य तत्तदपोद्धारे तत्तदु(द)पचयस्य दर्शनादेकत्वाध्यवसायतश्चै काधिकरणत्वेन
-
..१ भिन्नात्मकतया S।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org