________________
. पं. १२॥ हेतुविन्दुटीकालोकः ।
न चा()यमवस्था कार्यविज्ञानातिरिक्तं ज्ञानं जनयति येन ज्ञानलक्षणायामर्थक्रियायामस्योपयोगात् सामर्थ्य कल्प्येतेत्यभिप्रायेण सर्वसामर्थ्यविरहलक्षणस्ये ८५.२२/त्यवोचदिति । अनुभवादि[८५.२.४]ति, हेतौ शतुर्विद्यानाद्वाधानुभवादित्यर्थः । बाधासद्भावाद् ‘बाधवर्जितम् । इति सामान्यप्रमाणलक्षणस्याभावं प्रतिपाद्य विशेषलक्षणस्याप्यभावं प्रतिपादयितुं तत्प्रतिभासिनश्चे[८५.२५]त्यादिनोपक्रमते । एकरूपाभावे 5 कथं तत्त्वाध्यवसायः स्यात् सर्वेषामित्याशङ्कयान्यथैवास्योपपत्तिमुपसंहारख्याजेन दर्शयन्'
आह-तस्मादि[८६.३]त्यादि । सदृश[८६.३]शब्देन निरन्तरसदृशं विवक्षितम् । तेन निरन्तरस्य सदृशस्यापरस्य भाव[८६.३]स्तन्निरन्तरनिबन्धनेत्यर्थः । केशादिषु लूनपुनारूढेष्वित्यर्थादवसेयम् । आकारसाम्यमात्रेणापहृतं प्रकरणात् यथात्वनिश्चयायोग्यीकृतं हृदयं [८६.४] चेतो येषां तेषाम् ।
10 - ननु यदि आकारस्य साम्य सादृश्यं नाम त्वन्मते किश्चित् स्यात् तन्मात्रापहृतहृदया: प्रत्यभिजानीयुः। न चैतवस्ति, तत् कथमेवमुक्तमित्याह न चे८६.८]ति ।
" एकप्रत्यवमर्शार्थज्ञानाचेकार्थसाधने ।
___भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत् ॥" [प्रमाणवा० ३.७२] इत्यादिना विपश्चितत्वादेवमुक्तम् ।
तेषु [८६.१७] भावेषु ।
त्रयाणामपि रूपाणां प्रमाणसिद्धत्वात् [38a] 'स्वतंत्रहेरियं व्यापकानुपलब्धिः [८७.७] । . अनेन [८७९] प्रत्यभिज्ञानेन प्रत्यक्षरूपेण अनिश्चिते[८७.१०]त्यादि प्रतिविधानम् । तावदस्य बाधकत्वं न भवति यावत् प्रत्यभिज्ञानस्याप्रामाण्यं न सिद्धयति, 20 अन्यथा अनेनैव बाध्यमानविषयत्वादस्य कथं प्रामाण्यं येन वाधकत्वं स्यात् ! तावब तस्याप्रामाण्यं नोपपद्यते यावदनुमानस्यास्य प्रामाण्यसिद्धयाबाधकत्वं न सिद्धयति । इंतस्था बाधवर्जितत्वादिलक्षणसम्भवे प्रामाण्याप्रच्युतिरितीतरेतराश्रयत्वं दोष इत्या
शाध्यमानमाह नापी[८७.१०]ति । . - अनुमान[ ८७.११ Jशब्देनोपचाराल्लिङ्गमभिप्रेत्य “स्वसाध्यप्रतिबन्धादि- 25 [८७,१२]त्याद्युक्तम् । यदि वा लिङ्गस्येत्यध्याहार्यम् अवचने च प्रमाणलक्षणयुक्ते बाधसम्भवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वास इत्यभिप्रायः ।
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org