________________
: ८०. पं. १२.] हेतुबिन्दुटीकालोकः।
३२५ पूर्वाचार्योक्तं [७७.११]दिङ्नागपादोक्तं तं प्रत्यनपेक्षत्वं ख्यापयितुमुपक्रमत [७७.१२] इति सम्बन्धनीयम् । तं [७७.१२] परेष्टं प्रति । • वस्तुगतौ [७७.२५] वस्तुप्रकारे तदात्मा [७८.१] निर्वृत्तस्थिरात्मा । तस्य [७८.१] अन्यथाभावस्य । प्रसङ्गात् [७८.२] हेतोः। तस्यैव [७८.२] स्वहेतुतः स्थिररूपतया निवृत्तस्यैव अन्यथात्वायोगात् हेतोः । तत्र [७८.३] हेत्वगते 5 स्थिररूपे हेतुव्यापारस्य (७८.३] कल्पयितुमशक्यत्वाच[७८.३] नान्यथाभावस्तदात्मा शक्यते कर्तुम्[७८.१] ।
तस्य विनाशस्य स्वभावस्तत्स्वभावस्[७८.५]तमेव । लक्षण[७८.११]शब्दो रूपनिबन्धनः । स्वलिङ्गेन चास्यावस्थानं कृतम् । तस्य [७८.१६] भावान्तरशन्यभावान्तररूपस्य । सर्वरूपशून्यस्य प्रभावस्य हे'तुस(म)ता विरुध्यते न त्वस्येति भावः । 10 . यदीदं भवतामपीष्टं तर्हि कस्मादस्मन्मतं नाभ्युपेयत इत्याह-किंत्वि[७८.१९]ति । - तदुत्पत्तौ (७८.२ ४] प्रध्वंसरूपभावान्तरोत्पत्तौ । एतस्मिन्पराभिप्रायेप्येवं ब्रुवाणो नियतमेवं [७८.२६] वक्ष्यमाणकं मन्यते [७८.२६] वार्तिककार इति चार्थात् सर्वस्येन्धनादेः [७८.२६] तथाभावः प्रध्वस्तत्वं गवादेस्तथाभावः [७८.२७] : प्रध्वंसरूपत्वमिति द्रष्टव्यम् । द्वयमप्येतद्यत्रकुर्वन् (१) परः प्राह । तस्मिन्सती[७९.१7- 15 ति। अनेन दृश्यमानाङ्गारादिभावेन सर्वमिन्धनादि निवर्तत इति न सर्वस्य प्रश्नस्तत्वं नापि गवादौ सतीन्धनादि निवर्तत इति न गवादेः प्रध्वंसरूपतेति परेण दर्शितम् । अस्य [७९.७] अङ्गारादेः ।
ध्वंसंते[७९.१३] ध्वंसमुपयान्ति विनश्यन्तीति यावत् । दीपापेक्षयाऽव्यक्तताद्रव्या(बुद्धय)पेक्षया आत्मभावः । भावरूंपाव्यक्तताभाव [७९.१५] इति ब्रुवाण- 20 . स्तथात्मकाभावरूपता यावद् व्यवस्थाप्यतामभावैकरसत्वात् प्रतिपत्तेः । न तु भावरूपाव्यक्ततापत्तौ प्रमाणमस्तीति दर्शयति । एतदेव दर्शयन्नाह यदिही[७९.१६]त्यादि । अत्रापि [७९.१९] उपलब्धियोग्यताविकलरूप तापत्तौ । ... पर्युदासेने[८०.३]त्यस्य विवरण विवक्षितादि[८०.३]ति । - सन् षोधगोचरप्राप्तोऽवधिज्ञानविषयतापन्नः तद्भावे [८०.१२] वयादिभावे 25 नश्यन्निति । " लक्षणहेत्वो[:] क्रियायाः” (पा० ३-२-१२६) इति हेतौ शतु(?)विधानादेतुपदमेतत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org