________________
१.७३. ६.२१ ] हेतुविन्दुटीकाकः। - -
अन्यदेव हि दृष्टान्तधामणि साध्यं यत्साधनधर्मस्य व्यापकमासीत् । अन्यदेव च धर्मिण्यनित्यत्वं तच्च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्यमानः साध्यविरुद्धमव्यापकत्वेन विशेषा'भावान्मूढमतिर्नित्यत्वमपि धर्मिणि प्रसञ्जयेत् । तथा च . सति साध्यविपर्यये हेतोवृत्तिशंकायां बाधकं प्रमाणं तदेव वाच्यम् यदुदाहरणस्थयोः साध्यसाधनयोः प्रतिबन्धग्राहि । अतएव तस्मादित्यनेन सर्वनाम्ना प्रतिबद्धं लिङ्गं 5 साध्यविरुद्धशंकां निवर्तयितुं प्रकृतत्वात्प्रत्यवमृष्यते । तस्माद्विपर्ययशंकानिवर्तकप्रमाणोपस्थापक निगमनं साध्ये विपरीतप्रसंगप्रतिषेधार्थ भवतीति । तदेतन्नैयायिकप्रवरस्य प्रकृष्टं प्रज्ञास्वलितविलसितम् । तथा हि साध्ये निर्दिष्टे हेतौ चाभिहिते दृष्टान्ते चोदाहृते दृष्टान्तदष्टसामर्थ्य च हेतौ साध्यधर्मिण्युपनीते कः सचेतनो येन विना यो न भवति धर्मः स भवस्तदभावमप्युपस्थापयति' इति निश्चीन्वीत संशयीत वा येन [35b] विरुद्ध- 10 प्रसंगशंकानिराकरणाय निगमनमभिधीयेत । न चायमनुन्मत्तोऽनित्यत्वे द्वे षस्यति(पश्यत्ति) येनान्यदेव दृष्टान्तधर्मिणि साध्यमनित्यत्वमन्यदेव च साध्यधर्मिण्यनित्यत्वं तच्च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्येत यतो(s)व्यापकत्वेन विशेषाभावात् अनित्यत्वमपि धर्मिणि प्रसञ्जयेत् । न च विशेषेण व्याप्तिमसावन ही[दि]ति, विशेषेण व्याप्तेरेवासम्भवात् । तथा चोक्तं-" व्याप्तिः सामान्यधर्मयोः" इति । अन्यथा सत्यपि 15 तस्मिंस्तदाशंके(का) नापाक्रियेत । एतेन सप्रतिपक्षत्वशंकानिराकरणत्वम् तत्प्रयोजनमिति यत्कैश्चिदुपवर्ण्यते तदपि परास्तमवसेयम् । अथ मोहमाहात्म्यादेवमपि संभाव्यत इति चेत् । अफ्यातं तर्हि पञ्चावयवत्वं वाक्यस्य । सम्भवत्यपि कश्चिन्मूढतरमतिर्यः पञ्चावयवेऽपि वाक्ये प्रयुक्त नानित्यापत्ति वचनमन्तरेण शब्दस्यानित्यत्वं नियतं म प्रत्येति । अस्ति च दिगम्बराणां विप्रतिपत्तिः-स्यान्नित्यः शब्दः स्यादनित्य इति । तदाबव्युदासाय माऽनी- 20 (ऽनित्योपीत्यपि किं नोच्यत इत्यलमतिविस्तरेण निष्प्रयोजनकत्वेन । निगमनस्य वाक्याङ्गत्वे निरस्ते प्रथममुपदर्शित यदुभथेषां मतं तदरण्यानीरुदिततुल्यं जातमिति किं 'तत्रोक्तनेति । ज्यायान् [७२.२१] श्रेष्ठतरः । पतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चाक्यवा यस्य स तथा तदात्मकः [७२.२१] सामस्त्यनिषेधश्चैष द्रष्टव्यः । हेतुरि७ि२.२५]त्यभिधानाभिधेययोरभेदविवक्षया साक्षात्पारम्पर्येण एकविषयत्नाद्वा' 25 पक्षधर्मत्वाभिधायी - शब्दो द्रष्टव्यः । हेतुश्चैवानुवाद्येनात्मना प्रतिपाद्यमानो व्याप्यरूपः प्रतिपादितो भवतीति प्रथमान्तेन तदभिधायिना शब्देन प्रतिपाद्यते । अतः प्रथमान्त एव तदभिधायी शब्दो न्याय्यः । हेत्वभिधायिशब्दमात्रापेक्षया तु पूर्वापरनियमखण्डनमाचार्यस्य द्रष्टव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org