________________
पण्डितदुवैकामतो . . ७२. पं. २ सिद्धामा भागान्तस्त्वं सिद्धयेत् । धर्मिणि च साधनधर्मस्य सम्भवं परिच्छेद(च्छिय) प्रत्यक्षमानुमानं वाऽसंभवं निवर्तयतीति अत्रापि प्रत्यक्षं नियामकमस्तीति दृष्टान्तवदुपनयोपि प्रत्यक्षमिति वक्तव्यः । कचिदनुमानस्यापि तथास्वादनुमानमित्यपीत्यलमतार्किकवचननिर्बन्धेन । तदुव्यापार [७२.१४] उपमानरूपोपनकव्यापारः । स एवो[७२.१६]5 पनय एव । . स्यादेतद्-अनित्यः शब्द इत्युक्ते कुत एतदिति श्रोतुरपेक्षोपजायते । न त धर्मिणि लिङ्गस्य सत्त्वो(सत्त्वा)पेक्षा । तस्मात्प्रतिज्ञानन्तरं परापेक्षितसाध्यप्रतिपत्तिरपि तु प्रति(पत्तिहेतुप्रतिपिपादयिषया पञ्चम्यन्तस्य तदभिधायिनः शब्दस्य प्रयोगो न तु
ध[35a]'मिणि लिङ्गस्य सत्त्वप्रतिपादनार्थः। ततो न तस्य पक्षधर्मताप्रतिपादनं प्रयोजन 13 मिति कथं पक्षधर्मत्वं स एव दर्शयिष्यतीति न किञ्चित्तेनेत्युच्यमानं शोभतेति । अत्रो.
च्यते । अनित्यः शब्द इति प्रतिज्ञोपादानेपि तदनन्तरमेव यद्यत्कृतकं तत्सर्वमनित्यम् . यथा घटस्तथा चायं कृतक इत्युक्ते साध्यप्रतीतौ किं निमित्ताकांक्षोपशमो नास्ति ? येन पञ्चम्यन्तस्य लिङ्गाभिधायिन एव तदुपशमः प्रयोजनं वर्येत । यदि सत्यवादी
भवानैवं वक्तुमर्हतीति । किञ्च यो यस्मिन्किञ्चिन्निमित्तभावमपेक्षते न स तत्र 15 शशविषाणायमानस्य तत्त्वमपेक्षते । अपि तु तत्र सत एवेति फवं शब्दा
नित्यस्वसिद्धौ कस्यचिनिमित्तावमपेक्षितवता सत्त्वं नापेक्षितम् । येन पर नपेक्षितं सत्त्वं पतिपादयितुं न तन्निमित्ताभिधायिनः शब्दस्य सामान्य(मर्थ्य)मस्तीत्युच्येत तस्माच्छब्दादौ भर्मिणि लिङ्गस्य साध्यसिद्धौ निमित्तभूतसत्त्वप्रतिपादनं हेतुप्रयोगस्य प्रयोजनमवश्यैषितव्यम् । (त)बोपनयेनापि शक्यं संपादयितुमिति साधूक्तं किं तेने[७२.१७ति ।
संप्रति निगमने यथाश्रुति 'दूषणमाह--यत्र प्रतिज्ञाया[७२.१८] इति । अथापि स्यान्नायं पुनः शब्दः [अ] प्रथमे किं तर्हि सादृश्ये, यथा 'अचिरप्रभा पुनर्निश्वरति' इत्यत्र । सादृश्यञ्च कियद्रूपेणास्त्येव । यद्वा यद्यपि सिद्धनिर्देशो निगमनं साध्यनिर्देशश्च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वमासीत्तस्यैव निगमने सिद्धत्वमित्यवस्था वन्तमेकमाश्रित्य
समानविषयतया निगमनं प्रतिज्ञेत्युपचर्यते तथा च पुनर्वचनमप्युपपन्नमिति । न चैतन्निगमनं 25 निष्प्रयोजनमाशंकनीयम् साध्ये विपरीतप्रसङ्गप्रतिषेधार्थत्वादस्य । तदुक्तं " साध्यविपरीत.
शंकाव्यवच्छेदार्थ निगमनमिति” । यद्यपि च लिङ्गमाश्रयवत्साध्याविनाभावि च प्रतिज्ञादिभिरवयवैराख्यातं तथापि निगमनमन्तरेण व्यापकविरुद्धप्रसंगाशंका स्यात् ।
ॐ
१. न किञ्चित्तेन ।
२. यत्र च प्रतिज्ञाया s.
Jain Education International
For Private.& Personal Use Only
www.jainelibrary.org