________________
पं. ७२. पं. १३.] हेतुबिन्दुटीकालोकः ।
३२१ . हेतुशब्देन गमकवचनं वाच्यम् । गमकञ्च त्रैरू प्यवल्लिङ्गम् । न च पञ्चम्यन्तेन तेन शब्देन लिङ्गस्य त्रैरूप्यमभिधीयते किन्तु पक्षधर्मत्वमात्रम् [७२.११] निमित्तभाव एव चेत्येवं बदितुरभिप्रायः । एतेन तदपि विनिक्षिप्तम् यत्कैश्चिन्निपुण(णं)मन्यनैयायिकैरुच्यते, " प्रतिज्ञार्थ साधयितुं समर्थ पक्षधर्मत्वेनोपसंहर्तव्यं लिङ्गम् अनुमानं, तदभिधायी शब्दो हेतुः सोऽप्यभिधेयस्य नियमहेतुत्वात् बाह्याङ्गं सामानाधिकरण्यं चाभिधानाभिधेययोर-5 भेदविवक्षया साक्षात्पारंपर्ये3+bj'ण चैकविषयत्वादिति । " तावाद्ध धूमादिवस्तु न लिङ्गं यावद्वयादिनान्तरीयकतया न निश्चीयते, धर्मिविशेषे च क्वचिन्नोपलीयते । तन्नान्तरीयकतया निश्चितं कचिदुपसंहृतं च साध्यसाधनसामर्थ्य भवति नान्यथा। न च पञ्चम्यन्तेन 'धूमाद! इत्यादिना शब्दे [न] तस्य तन्नान्तरीयकत्वं पक्षे च सत्त्वं कथ्यते । उदाहरणोपनयोर्वैयर्थ्यप्रसंगात् । तत्कथं प्रतिज्ञार्थसाधनसमर्थलिङ्गाभिधायित्वं तस्य 10 शब्दस्य येन तदभिधायी शब्दो हेतुः' इत्युच्यते, स तथा बाह्यानमिति चोच्यते 'हेतुरनुमानम् ' इति सामानाधिकरण्यं तथा कल्पेतेति ।
प्रत्यक्षेण साध्यसाधनयोर्व्याप्तिस्तत्र गृह्यत इति दृष्टान्तः प्रत्यक्षोऽभिप्रेतः । अत एवायं न सर्वः प्रत्यक्ष [७२.१२] इति । नवै सर्वत्र दृष्टान्ते प्रत्यक्षेण साध्यसाधनयोर्व्याप्तिर्गृह्यते। यथा भवन्मत एव नित्य आत्मा सत्तासम्बन्धित्वे सत्यनाश्रितत्वात् , 15 परमाणुवदित्यत्र दृष्टान्ते नित्यत्वं सत्तासम्बन्धित्वे सत्यनाश्रितत्वं यौ धर्मों तयोर्व्याप्तिरनुमानेन. गृह्यत इत्यभिसन्धिः । अनेनैतदपि. प्रत्युक्तं यत्तैरेव नैयायि'कप्रवरैरुच्यते" साध्यसाधनयोाप्तितो · विषयो - दृष्टान्तः । तत्र प्रत्यक्षेण व्याप्तिं गृहीत्वा पश्चादुदाहरति । तेन प्रत्यक्षं नियामकमस्तीति" । उदाहरणमपि वाक्यस्य भागान्तरमिति प्रत्यक्षेण ब्याप्तिग्रहणस्यासर्वविषयत्वात् कचिद्भावात्तथाभिधाने च तत एव दृष्टान्तोऽनुमान- 20
मित्यभिधीयतेति । - तस्य तरातिरिक्तार्थग्रहणाभावादित्यभिप्रायेण उपमानं तु प्रमाणमेव न.
भवती[७२.१३]त्याह । एतच्च बहुबाध्य(बहुवाच्य)मन्यत्रोक्तमिति नेहोक्तम् , सिद्धस्त्वर्थोऽनूदितः। अनयैव च द्वारा यदुच्यते तैरेव “यथातथेति दृष्टान्तदान्तिकयोः सारूप्यप्रतिपत्तिरुपमानमतिदेशवाक्यता, पक्षधर्मत्वग्राहिप्रमाणवचनमुपनयः । अत्राप्युप- 25 मान नियमहेतुत्व(स्व) धर्मिणि या साधनधर्मस्य संभवं बोधयदसंभवं निवर्तयति यत्प्रमाणं तन्नियामकमस्तीति उपनयोपि नियमहेतुमत्त्वादागान्तरमिति तदपि प्रत्याख्येयं द्विविधस्यास्य वर्णितस्योपमानस्याप्रामाण्यादेव' कथं नियामकम् ? येनोपनयनस्य नियमहेतुक
1-
..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org